संस्कृत-शब्दकोशः

रक्तैर्वारु रक्तोत्पलाभ

रक्तोत्पल

वाचस्पत्यम्

रक्तोत्पल ||‍ न० कर्म० । कोकनदे लोहितवर्णे पद्मे अमरः । रक्तोत्पलमिव पुष्पमस्त्यस्य अच् । २ शाल्मलिवृक्षे (शि- मुन) पु० राजनि० । रक्तमुत्पलमिव । ३ नैरिके न० हारा०


शब्दकल्पद्रुमः

रक्तोत्पलं || क्ली (रक्तं रक्तवर्णमुत्पलम् ।)
रक्त- पद्मम् । तत्पर्य्यायः । रक्तसरोरुहम् २ कोक- नदम् ३ । इत्यमरः । १ । १० । ४२ ॥ (यथा, बृहत्संहितायाम् । २९ । ९ । “विन्द्याच्च सिन्दुवारेण मौक्तिकं कुङ्कुमं कुसुम्भेन । रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः ॥” तथास्य गुणाः । “धवलं कमलं शीतं मधुरं कफपित्तजित् । तस्मादल्पगुणं किञ्चिदन्यत् रक्तोत्पलादिकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)


शब्दकल्पद्रुमः

रक्तोत्पलः || पुं, (रक्तोत्पलमिव पुष्पमस्त्यस्य । अर्शआद्यच् ।)
शाल्मलिवृक्षः । इति राज- निर्घण्टः ॥



Correction: