वाचस्पत्यम्
रघूद्वह || पु० रघुषु उद्वहः रक्षादिभारधारकः उद + वह—अच् । दशरथनृपस्य ज्येष्ठपुत्रे श्रीरामे शब्दर० ।
शब्दकल्पद्रुमः
रघूद्वहः || पुं, (उद्वहतीति । उत् + वह् + अच् । रघूणां उद्वहः रक्षाभारधारकः ।) श्रीरामः । इति शब्दरत्नावली ॥