वाचस्पत्यम्
रङ्गपुष्पी || स्त्री रङ्गं पुष्प्यति पुष्प अण् गौरा० ङीष् । नीलीवृक्षे राजनि० ।
शब्दकल्पद्रुमः
रङ्गपुष्पी || स्त्री (रङ्गं रञ्जितं पुष्पमस्याः ।) नीलीवृक्षः । इति राजनिर्घण्टः ॥