वाचस्पत्यम्
रङ्गलासिनी || स्त्री रङ्गं रागं लासयत्युद्भासयति वृन्तरसेन लस—णिच्—णिनि । शेफालिकायाम् शब्दच० ।
शब्दकल्पद्रुमः
रङ्गलासिनी || स्त्री (रङ्गेण रागेण लसितुं शील- मस्याः इति । लस + णिनिः ।) शेफालिका । इति शब्दचन्द्रिका ॥