संस्कृत-शब्दकोशः

रङ्गारि रङ्गावतारिन्

रङ्गावतारक

वाचस्पत्यम्

रङ्गावतारक ||‍ पु० रङ्गे नाट्यस्थानेऽवतरति वेशान्तरपरि- ग्रहेण अव + तॄ—ण्वुल् । १ नटे शैलूषे जटा० । णिनि । उक्तार्थे हेमच० । तदन्नभोजननिषेधो मनुनोक्तो यथा “कर्मारस्य निषादस्य रङ्गावतारकस्य च । सुवर्णकर्त्तु- र्वेणस्य शस्त्रविक्रयिणस्तथा । त एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्त्तिताः । तेषान्त्रगस्थिरोमाणि वदन्त्यन्नं मनीषिणः । भुक्त्वातोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् । मत्या भुक्त्वा चरेत् कृच्छ्रं रेतोविण्मूत्रमेव च” ।


शब्दकल्पद्रुमः

रङ्गावतारकः || पुं, (रङ्गे सङ्गीतभवने अवतर- तीति । तॄ + ण्वुल् । यद्बा रङ्गं नृत्यादिकमव- तारयतीति । तॄ + णिच् + ण्वुल् ।)
रङ्गाव- तारी । तत्पपर्य्यायः । शैलूषः २ भरतः ३ सर्व्व- वेशी ४ भरतपुत्त्रकः ५ धात्रीपुत्त्रः ६ रङ्ग- जीवः ७ जायाजीवः ८ नटः ९ कृशाश्वी १० शैलाली ११ । इति हेमचन्द्रः ॥ नृत्यगीतस्थाने गीतवाद्यादिना तदनुगुणतया प्रसङ्गी । इति प्रायश्चित्तविवेकः ॥ नटगायनव्यतिरिक्तरङ्गाव- तरणजीवी । इति कुल्लूकभट्टः ॥ तस्यान्नभक्षण- प्रायश्चित्तं यथा, —
“मत्तक्रुद्धातुराणाञ्च न भुञ्जीत कदाचन । केशकीटावपन्नञ्च पदा स्पृष्टञ्च कामतः ॥” इत्युपक्रम्य, —
“कर्म्मारस्य निषादस्य रङ्गावतारकस्य च । सुवर्णकर्त्तुर्व्वेणस्य शस्त्रविक्रयिणस्तथा ॥” इत्याद्युक्त्वा, —
“य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्त्तिताः । तेषान्त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः ॥ भुक्त्वातोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् । मत्या भुक्त्वा चरेत् कृच्छ्रं रेतोविण्मूत्रमेव च ॥” इति मानवे ४ अध्यायः ॥



Correction: