वाचस्पत्यम्
रजन || न० रन्ज—क्युन् । १ रागे सि० कौ० । २ कुसुम्भे ३ ह- रिद्रायां ४ रात्रौ च स्त्री उज्ज्वलः गौरा० ङीष् ।
शब्दकल्पद्रुमः
रजनं || क्ली (रज्यत इति । रन्ज् + “रञ्जेः क्युन् ।” उणा० २ । ७९ । इति क्युन् । “रजकरजन- रजःसूपसंख्यानम् ।” ६ । ४ । २४ । इति वार्त्तिकोक्तेर्नलोपश्च ।)
रागः । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥ (यथा, महाभारते । ८ । ५२ । ९ । “यथा वा वाससी शुक्ले महारजनरञ्जिते । विभृयाद् युवती श्यामा तद्वदासीद्वसुन्धरा ॥”)
ऋषिविशेषे, पुं । यथा, तैत्तिरीयसंहितायाम् । २ । ३ । ८ । १ । “रजनो वै कौणेयः क्रतुजितं जानकिं चक्षुर्व्वन् यमयात् ॥”)