संस्कृत-शब्दकोशः

रट रटित

रटन्ती

वाचस्पत्यम्

रटन्ती ||‍ स्त्री रट—बा० झश् ङीप् । “माघे मास्यसिते पक्षे रट- न्त्याख्या चतुर्द्दशी । तस्यां प्रदोषसमये पूजयेत् मुण्डः मालिनीम्” इत्युक्तायां माघकृष्णचतुर्दश्याम् ।


शब्दकल्पद्रुमः

रटन्ती || स्त्री (रट्यते पुण्यजनकत्वेन कथ्यते इति । रट् + बहुलकात् झच् । ङीप् ।)
गौणचान्द्र- माघीयकृष्णचतुर्द्दशी । तत्र अरुणोदयकाले स्नानं कर्त्तव्यम् । यथा । यमः । “माघे मास्यसिते पक्षे रटन्त्याख्या चतुर्द्दशी । तस्यामुदयवेलायां स्नाता नावेक्षते यमम् ॥” उदयवेलायामरुणोदयवेलायाम् । “अनर्काभ्युदिते काले माघे कृष्णचतुर्द्दशी । सतारव्योमकाले तु तत्र स्नानं महाफलम् । स्नात्वा सन्तर्प्य तु यमान् सर्व्वपापैः प्रमुच्यते ॥” अत्र तिथिकृत्यत्वात् गौणचान्द्रादरः । अत्रा- रुणोदयकाल एव स्नानं पूर्ब्बोक्तचतुर्द्दशयम- तर्पणञ्च । यत्तु उदयवेलायां सूर्य्योदयवेलायां अनर्काभ्युदित इति ईषदर्थे नञिति व्याख्यानं तत् समुद्रकरभाष्यधृतसतारव्योम इति इत्यु- त्तरार्द्धानवलोकनेनेति । इति तिथ्यादितत्त्वम् ॥ किञ्च । “अनर्काभ्युदिते काले स्नानं कुर्य्यात् सरिज्जले । शतजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ रटन्ती नाम विख्याता सर्व्वपापहरा शिवा ॥” इति मत्स्यसूक्ते ५५ पटलः ॥ क्वचित् पुस्तके सरिज्जले इत्यत्र वहिर्ज्जले इति पाठः ॥ * ॥
तत्र श्यामापूजाविधिर्यथा, —
“माघे मास्यसिते पक्षे रटन्त्याख्या चतुर्द्दशी । तस्यां संपूजयेत्तारां महाविभवविस्तरैः । चक्रवर्त्ती महाराजो भवत्येव न संशयः ॥” इति बृहन्नीलतन्त्रे ७ पटलः ॥ अपि च । “माघे मास्यसिते पक्षे रटन्त्याख्या चतुर्द्दशी । तद्रात्रौ कालिकापूजा सर्व्वविघ्नोपशान्तये ॥” इति कालिकापुराणम् ॥ * ॥
अपरञ्च । “माघे मास्यसिते पक्षे रटन्त्याख्या चतुर्द्दशी । तस्यां प्रदोषसमये पूजयेन्मुण्डमालिनीम् ॥” इत्याचार्य्यचूडामणिकृतकृत्यतत्त्वार्णवधृतवच- नम् ॥ अन्यत् श्यामाशब्दे द्रष्टव्यम् ॥



Correction: