वाचस्पत्यम्
रत्नपारायण || न० रत्नानां पारायणं साकल्येन स्थानम् । सर्वरत्नाधारे “रत्नपारायणं नाम्ना लङ्का” भट्टिः ।
शब्दकल्पद्रुमः
रत्नपारायणं || क्ली (परायणमेव । अण् । रत्नस्य पारायणम् ।)
सर्व्वरत्नस्थानम् । यथा, —
“समुद्रोपत्यका हैमी पर्व्वताधित्यका पुरी । रत्नपारायणं नाम्ना लङ्केति मम मैथिलि ! ॥” इति भट्टिः ॥