संस्कृत-शब्दकोशः

रथकर रथकुटुम्बिन्

रथकार

वाचस्पत्यम्

रथकार is an alternate of रथकर. रथक(का)र ||‍ पु० रथं करोति कृ—अच्—अण् वा । १ रथ- निर्माणकारके (सूत्रधार) २ वर्णसङ्करभेदे करण्यां माहिष्याज्जाते पुंस्त्री० ।


शब्दकल्पद्रुमः

रथकारः || पुं, (रथं करोतीति । कृ + अण् ।)
रथनिर्म्माणकर्त्ता । छुतार इति भाषा । स तु करणीगर्भे माहिष्याज्जातः । (यथा, वाज- सनेयसंहितायाम् । ३० । ६ । “स्त्रीषखं प्रमदे कुमारीपुत्रं मेधायै रथकारं धैर्य्याय तक्षाणम् ।” “रथकारं माहिष्येण करिण्यां जातम् ।” इति तद्भाष्ये महीधरः ॥)
तत्पर्य्यायः । तक्षा २ वर्द्धकिः ३ त्वष्टा ४ काष्ठतट् ५ । इत्यमरः ॥ सूत्रधारः ६ वद्धका ७ रथकरः ८ काष्ठतक्षकः ९ । इति शब्दरत्नावली ॥



Correction: