संस्कृत-शब्दकोशः

रथावरोहिन् रथिन

रथिक

वाचस्पत्यम्

रथिक ||‍ पु० रथो युद्धसाधनत्वेनास्त्यस्य ठन् । १ रथिनि २ ति- निशवृक्षे च राजनि० । इर । रथिर । इन । रथिन । इनि । रथिन् एतेऽप्यत्र ।


शब्दकल्पद्रुमः

रथिकः || पुं, (रथोऽस्त्यस्येति । रथ् + ठन् ।)
रथी । इत्यमरः । २ । ८ । ७६ ॥ (यथा, बृहत्संहितायाम् । १५ । ११ । “हस्ते तस्करकुञ्जर- रथिकमहामात्रशिल्पिपण्यानि ॥”)
तिनिशवृक्षः । इति राजनिर्घण्टः ॥ (रथेन चरतीति । रथ् + “पर्पादिभ्यः ष्ठन् ।” ४ । ४ । १० । इति ष्ठन् । रथचारिणि, त्रि । इति सिद्धान्तकौमुदी ॥)



Correction: