वाचस्पत्यम्
रन्ज || रागे (वर्णान्तराधाने) सक० आसक्तौ अक० भ्वा० उभ० अनिट् । रजति ते अराङ्क्षीत् अरङ्क्त । घटा० रञ्जयति मृगरमणे तु रजयति ।
वाचस्पत्यम्
रन्ज || रागे आसक्तौ दिवा० उभ० सक० अनिट् । रज्यति रज्यते अराङ्क्षीत् अरङ्क्त । घटा० रञ्जयति रजयति ।
शब्दकल्पद्रुमः
रन्ज || म औ ञ रागे । इति कविकल्पद्रुमः ॥ (भ्वा०-दिवा० च-उभ०- वर्णान्तरोत्पादने सक०-आसक्तौ अक०-अनिट् ।)
य ञ, रज्यति रज्यते । म, रजयति मृगान् मृगरमणादन्यत्र रञ्जयति पुत्त्रं पिता । औ, रङ्क्ता । ञ, रजति रजते । रागो वर्णा- न्तरोत्पादनमासक्तिश्च । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
रन्ज || य म औ ञ रागे । इति कविकल्पद्रुमः ॥ (भ्वा०-दिवा० च-उभ०- वर्णान्तरोत्पादने सक०-आसक्तौ अक०-अनिट् ।)
य ञ, रज्यति रज्यते । म, रजयति मृगान् मृगरमणादन्यत्र रञ्जयति पुत्त्रं पिता । औ, रङ्क्ता । ञ, रजति रजते । रागो वर्णा- न्तरोत्पादनमासक्तिश्च । इति दुर्गादासः ॥