वाचस्पत्यम्
रभ || औत्सुक्ये भ्वा० आ० अक० अनिट् । रभते अरब्ध रेभे आ + आरम्भे सक० । अलिट्यजादौ आर्द्धधातुके मुम् । आरम्भः आरम्भणम् । लिटि तु आरेभे ।
वाचस्पत्यम्
रभ || शब्दे भ्वा० आ० अक० सेट् इदित् । रम्भते अरम्भिष्ट ।
शब्दकल्पद्रुमः
रभ || इ ङ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।)
इ, रम्भ्यते । ङ, रम्भते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
रभ || औ ङ राभस्ये । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-अनिट् । राभस्यमुत्सुकीभावः । निर्व्विचारा प्रवृत्तिरिति गोविन्दभट्टः । औ, रब्धा । ङ, रभते साधुः पुण्ये । आङ्पूर्व्वोऽय- मारम्भे । शास्त्रं पठितुमारभते शिष्यः । इति दुर्गादासः ॥