संस्कृत-शब्दकोशः

रसज रसज्येष्ठ

रसज्ञा

वाचस्पत्यम्

रसज्ञा ||‍ स्त्री रसं जानाति अनया ज्ञा—करणे घञर्थे क । १ जिह्वायाम् रसज्ञानसाधने जिह्वास्वानस्थेन्द्रिये अमरः ज्ञा—क । रसज्ञातरि त्रि० ।


शब्दकल्पद्रुमः

रसज्ञा || स्त्री (रसं जानातीति । ज्ञा + कः । टाप् ।)
जिह्वा । इत्यमरः ॥ (गङ्गा । इति काशीखण्डे । २९ । १४६ ॥)
रसवेत्तरि, त्रि ॥ (यथा, रघौ । २ । ३६ । “यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥”)



Correction: