संस्कृत-शब्दकोशः

रसशोधन रसस्थान

रससिन्दूर

वाचस्पत्यम्

रससिन्दूर ||‍ न० रसजातं सिन्दूरम् । पारदजाते सिन्दूरभेदे तत्पाकविधिः भावप्र० उक्तो यथा “शुद्धसूतस्य गृह्णीयाद् भिषग्भागचतुष्टयम् । शुद्ध- गन्धस्य भागैकं तावत् कृत्रिमगन्धकम् । अथ वा पारदा- स्यार्द्वं शुद्धगन्धकमेव हि । तयोः कज्जलिकां कुर्णाद्दिन- मेकं विमदयेत् । मृत्तिकां वाससा सार्द्धं कुट्टयेदति० यत्नतः । तथा वारत्रयं सम्यक् काचकूपीं प्रलेपयेत् । नृत्तिनां शोपयित्वा तु कूप्यां कज्जलिकां क्षिपेत् । तां कूपीं वालुकायन्त्रे स्थापयित्वा रसं पचेत् । अग्निं निरन्तरं दद्याद् यावद्दिनचतुष्टयम् । गृह्वीयादूर्ध्व- संलग्नं सिन्दूरसदृशं रसम्” ।


शब्दकल्पद्रुमः

रससिन्दूरं || क्ली (रसजातं सिन्दूरमिति ।)
औषधविशेषः । तस्य नामान्तरं सिन्दूररसः । यथा, —
“शुद्धसूतस्य गृह्णीयाद्भिषग्भागचतुष्टयम् । शुद्धगन्धस्य भागैकं तावत् कृत्रिमगन्धकम् ॥ अथवा पारदस्यार्द्धं शुद्धगन्धकमेव हि । तयोः कज्जलिकां कुर्य्याद्दिनमेकं विवर्ज्जयेत् ॥ मृत्तिकां वाससा सार्द्धं कुट्टयेदतियत्नतः । तया वारत्रयं सम्यक् काचकूपीं प्रलेपयेत् ॥ मृत्तिकां शोषयित्वा तु कूप्यां कज्जलिकां क्षिपेत् । तां कूपीं वालुकायन्त्रे स्थापयित्वा रसं पचेत् ॥ अग्निं निरन्तरं दद्याद्यावद्दिनचतुष्टयम् । गृह्णीयादूर्द्ध्वसंलग्नं सिन्दूरसदृसं रसम् ॥” इति भावप्रकाशः ॥ (मतान्तरम् । “पृथक् समं समं कृत्वा पारदं गन्धकन्तथा । नवसारं धूमसारं स्फटिकं याममात्रकम् ॥ निम्बूरसेन संमर्द्द्य काचकूप्यां निवेशयेत् । मुखे पाषाणखटिकां दत्त्वा मुद्रां प्रलेपयेत् ॥ सप्तभिर्मृत्तिकावस्त्रैः पृथक्संशोध्य वेष्टयेत् । सच्छिद्रायां मृदस्थाल्यां कूपिकां तां निवेशयेत् । पूरयेत् सिकतापूरैरागलं मतिमान् भिषक् । निवेश्य चुल्ल्यां दहनं मन्दं मध्यं खरं क्रमात् ॥ प्रज्वाल्य द्वादशं यामं स्वाङ्गशीतं समुद्धरेत् । स्फोटयित्वा तु मुक्ताभमूर्द्धलग्नं वलिं त्यजेत् । अधःस्थं रससिन्दूरं सर्व्वरोगेषु योजयेत् ॥” इति रससिन्दूरम् ॥ इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥)



Correction: