वाचस्पत्यम्
रसातल || न० रसायास्तलम् । पातालभेदे सप्तमे भूमेरधोभागे अमरः ।
शब्दकल्पद्रुमः
रसातलं || क्ली (रसायाः तलं निम्नभागस्थलोक- विशेषः ।)
पातालम् । इत्यमरः ॥ (यथा, महाभारते । १२ । ३४७ । ५६ । “जग्राह वेदानखिलान् रसातलगतो हरिः ॥”)
पातालभेदः । यथा, —
“अतलं वितलञ्चैव नितलञ्च तलातलम् ॥ महातलञ्च सुतलं सप्तमञ्च रसातलम् ॥ पातालभेदाः सप्तैव नामतः कीर्त्तिता अमी । तत्र पातालमेकैकं दशसाहस्रयोजनम् ॥” इति शब्दमाला ॥ (इदमेव निवातकवचानां निवासस्थानम् । तथा च देवीभागवते । ८ । २० । ८ — १२ । “ततोऽधस्ताच्च विवरे रसातलसमाह्वये । दैतेया निवसन्त्येव पणयो दानवाश्च ये ॥ निवातकवचा नाम हिरण्यपुरवासिनः । कालेया इति च प्रोक्ताः प्रत्यनीका हवि- र्भुजाम् ॥ महौजसश्चोत्पत्त्यैव महासाहसिनस्तथा । सकलेशस्य च हरेस्तेजसा हतविक्रमाः ॥ विलेशया इव सदा विवरे निवसन्ति हि । ये वै वाग्भिः सरमया शक्रदूत्या निरन्तरम् ॥ मन्त्रवर्णाभिरसुरास्ताडिता विभ्यति स्म ह ॥”)