वाचस्पत्यम्
रसाम्ल || न० रसेनाम्लम् । १ वृक्षाम्ले राजनि० । २ चुक्रे च भावप्र० (चुकपामङ्ग)
शब्दकल्पद्रुमः
रसाम्लं || क्ली (रसात्मकोऽम्लो यत्र ।)
वृक्षाम्लम् । इति राजनिर्घण्टः ॥ चुक्रम् । इति भावप्रकाशः ॥
शब्दकल्पद्रुमः
रसाम्लः || पुं, (रसेन सह अम्लो यत्र ।)
अम्लवेतसः । इति राजनिर्घण्टः ॥