संस्कृत-शब्दकोशः

रस्न रस्या

रस्य

वाचस्पत्यम्

रस्य ||‍ न० रसाद्भुक्तान्नपरिणामादागतः यत् । १ रुधिरे शब्दच० रस्वते आस्वाद्यते रस—यत् । २ आस्वाद्ये त्रि० । रस्याः, “स्निग्धाः स्थिरा हृद्याः” गीता । ३ पाठायां ४ रास्ना- याञ्च स्त्री राजनि० ।


शब्दकल्पद्रुमः

रस्यं || क्ली (रसात् भुक्तान्नादिपरिपाकात् आगत- मिति । रस + यत् ।)
रक्तम् । इति शब्द- चन्द्रिका ॥ (यथा, महाभारते । १४ । ५० । ३२ । “यन्नैव गन्धिनो रस्यं नरूपं स्पर्शशब्दवत् ॥” रसयुक्ते, त्रि । यथा, भगवद्गीतायाम् । १७ । ८ । “रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥”)



Correction: