संस्कृत-शब्दकोशः

राङ्कल राङ्गण

राङ्कव

वाचस्पत्यम्

राङ्कव ||‍ न० रङ्कोरयं विकारो वा तल्लोमजातत्वात् अण् । मृगविशेषलोमजाते वस्त्रभेदे अमरः ।


शब्दकल्पद्रुमः

राङ्कवं || क्ली (रङ्कौ भवम् । रङ्कु + “रङ्कोरमनुष्ये- ऽण् च ।” ४ । २ । १०० । इति अण् ।)
मृगलोमजातवस्त्रादि । तत्पर्य्यायः । मृग- रोमजम् २ । इत्यमरः । २ । ६ । १११ ॥ रङ्कु- र्मृगभेदः ततो जाताद्यर्थे ष्णः पशवोऽपि मृगा इति रूढ्या मेषादिलोमजमपि कम्बलादि राङ्क- वम् । इति तट्टीकायां भरतः ॥ (यथा, महा- भारते । २ । ५० । २३ । “और्णञ्च राङ्कवञ्चैव पट्टजं कीटजन्तथा ॥” पुं, गौः । इति काशिका ॥ राङ्कवाकृतौ, त्रि । यथा, महाभारते । ९ । ४४ । २६ । “क्रौञ्चपारावतनिभैर्व्वदनैराङ्कवैरपि ॥”)



Correction: