वाचस्पत्यम्
राजकुमार || पु० राज्ञः कुमारः । अप्राप्तवयस्के युवराज कार्य्यानारूढे राजपुत्रे ।
शब्दकल्पद्रुमः
राजकुमारः || पुं, (राज्ञः कुमारः ।)
राजपुत्त्रः । तत्र वर्णनीयानि यथा, —
“कुमारे शस्त्रशास्त्रश्रीकलाबलगुणोच्छ्रयाः । वाद्याली खुरली राजभक्तिः शुभगतादयः ॥” इति कविकल्पलतायाम् १ स्तवकः ॥