वाचस्पत्यम्
राजदेशीय || पु० ईषदसाप्तो राजा राजन् + देशीयर् । राजतुल्ये राजकल्पे ।
शब्दकल्पद्रुमः
राजदेशीयः || पुं, (ईषदूनो राजा । राजन् + “ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ।” ५ । ३ । ६७ । इति देशीयर् ।) राजदेश्यः । राजकल्पः । इति व्याकरणम् ॥