वाचस्पत्यम्
राजधान्य || न० धान्येषु राजा राज० पर० । (श्यामा) श्यामाकधान्ये राजनि० ।
शब्दकल्पद्रुमः
राजधान्यं || क्ली (राजप्रियं धान्यम् ।)
श्यामाकः । इति राजनिर्घण्टः ॥ (यथा, बृहत्संहिता- याम् । १५ । १२ । “त्वाष्ट्रेभूषणमणिरागलेख्यगान्धर्व्वगन्धयुक्तिज्ञाः । गणितपटुतन्तुवायाः शालाक्या राजधान्यानि ॥”)