वाचस्पत्यम्
राजनीति || स्त्री राज्ञां नीतिः । १ राजज्ञेये सामाढ्युपाये, २ उपचारात् तत्प्रतिपादके—शास्त्रे च । सा च काम- न्दकीयनीतिशास्त्रादौ दृश्या ।
शब्दकल्पद्रुमः
राजनीतिः || स्त्री (राज्ञां नीतिः ।)
राज्ञां नयः । यथा, चाणक्यपण्डितकृतप्रथमः श्लोकः । “नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् । सर्व्वबीजमिदं शास्त्रं चाणक्यं सारसंग्रहम् ॥” सा यथा, —
“गदितं वलिशुक्राभ्यां श्रुत्वा भागवतोऽसुरः । प्राह धर्म्मार्थसंयुक्तं प्रह्नादो वाक्यमुत्तमम् ॥ यदायत्यां क्षमं राजन् ! यद्धितं भुवनस्य ह । अविरोधेन धर्म्मस्य अर्थस्योपार्ज्जनञ्च यत् ॥ सर्व्वसत्वानुगमनं कामवर्गफलञ्च यत् । परत्रेह च थच्छ्रेयः पुत्त्र तत् कर्म्म आचर ॥ यथा श्लाघां प्रयास्यद्य यथा कीर्त्तिर्भवेत्तव । यथा नापयशोयोगस्तथा कुरु महामते ॥ एतदर्थं श्रियं दीप्तां काङ्क्षन्ते पुरुषोत्तमाः । येनैति हि गृहेऽस्माकं निवसन्ति सुनिर्व्वृताः । वृद्धो ज्ञातिर्गुणा विप्रः कीर्त्तिश्च यशसा सह ॥ तस्माद्यथा ते निवसन्ति पुत्त्र- राज्यस्थितस्येह कुलोत्तमाद्याः । तथा यतस्वामलसत्त्वचेष्टया यथा यशस्वी भवितासि लोके ॥ भूम्यां सदा ब्राह्मणभूषितायां क्षेत्रान्वितायां दृढवापितायाम् । शुश्रूषणासक्तसमुद्भवायां ऋद्धिं प्रयान्तीह नराधिपेन्द्राः ॥ तस्माद्द्बिजाग्र्याः श्रुतिशास्त्रयुक्ता नराधिपांस्ते प्रतियाजयन्ते । दिव्यैर्यजन्तु क्रतुभिर्द्विजेन्द्रा यज्ञाग्निधूमो न नृपस्य शान्तिः ॥ तपोऽध्ययनसम्पन्ना याजनाध्यापने रताः । सन्तु विप्रा बले पूज्यास्त्वत्तोऽनुज्ञामवाप्य हि ॥ स्वाध्याययज्ञनिरता दातारः शस्त्रजीविनः । क्षत्त्रियाः सन्तु दैत्येन्द्र प्रजापालनधर्म्मिणः ॥ यज्ञाध्ययनसम्पन्ना दातारः कृषिकारिणः । पाशुपाल्यं प्रकुर्व्वन्तु वैश्या विपिनजीविनः ॥ ब्राह्मणक्षत्त्रियविशां सदा शुश्रूषणे रताः । शूद्राः सन्त्वसुरश्रेष्ठ तवाज्ञाकारिणः सदा ॥ यदा वर्णाः स्वधर्म्मस्था भवन्ति दितिजेश्वर ! । धर्म्मवृद्धिस्तदा स्याद्बै धर्म्मवृद्धौ नृपोदयः ॥ तस्माद्वर्णा सधर्म्मस्थास्त्वया कार्य्याः सदा बले ! । तद्वृद्धौ भवतो वृद्धिस्तद्धानौ हानिरुच्यते ॥ इत्थं वचः श्राव्य महासुरेन्द्रो बलिं महात्मा स बभूव तूष्णीम् । ततो यदाज्ञापयसे करिष्ये इत्थं बलिः प्राह वचो महर्षे ॥” इति वामने ७१ अध्यायः ॥ * ॥
अपि च । “एवं दत्त्वा ततो राज्यं मूर्द्ध्नि चाघ्राय धर्म्मवित् । उवाच मधुरं वाक्यं पुत्त्रं पुत्त्रवतां वरः ॥ राज्यस्थेनापि ते पुत्त्र कर्त्तव्यं शृणु तन्मम । यदीच्छेत् परमं धर्म्मं पितॄणां तारणं तथा ॥ दातव्योऽर्त्तिर्न कर्त्तव्या हन्तव्या परदारिकाः । बालवाताश्च हन्तव्या हन्तव्या स्त्रीविघातकाः ॥ मा लोभं परद्रव्येषु अन्यायोपार्ज्जितेषु च । न चिरं तिष्ठते क्वापि सर्व्वे मान्याः कदाचन ॥ रक्षणीयश्च ते देशः कुलन्यायवशार्ज्जितः । नित्योद्युक्तेन स्थातव्यममात्यवचनं कुरु ॥ अमात्यो यद्वचो ब्रूयात् पुत्त्र कार्य्यविमर्शनम् । अवश्यमेव कर्त्तव्यं शरीरपरिरक्षणम् ॥ प्रजा येन प्रमोदन्ति येन तुष्यन्ति ब्राह्मणाः । एवं ते पुत्त्र कर्त्तव्यं मम प्रियहितैषिणा ॥ सप्त व्यसनं वर्ज्ज्येत दोषो राज्ञस्तु तन्महत् । येषु राजा विनश्येत सम्पन्नोऽपि महाद्युतिः ॥ वज्जयेत सुरापानं मृगया वर्ज्जयेत् सदा । वाक्यं रूक्षं न वक्तव्यं वृथा यावत् कदाचन ॥ राजगुह्यं न वक्तव्यं दूतभेदं विवर्ज्जयेत् । वर्ज्जयेदतिपारुष्यं असद्भिश्च समागमम् ॥ अर्थदूषणकञ्चैव न कर्त्तव्यं कदाचन । अमात्यं नाप्रियं ब्रूयाद्यदीच्छेद्राजकर्म्मणि ॥ नाहं निवारणीयस्ते गमनाय पथे स्थितः । एतन्मे क्रियतां शीघ्रं यदीच्छसि मम प्रियम् ॥ ततः पितुर्व्वचः श्रुत्वा राजपुत्त्रो यशस्विनः । उभौ तु पादौ संगृह्य कारुण्यं प्रत्युवाच तम् ॥” इत्यादि श्रीवराहपुराणे भगवच्छ्रास्त्रे शौकरवे तीर्थमाहात्म्ये आदित्यवरप्रदानमृगजम्बुको- पाख्यानं नामाध्यायः ॥ * ॥
अन्यच्च । मनुरुवाच । “राज्ञोऽभिषिक्तमात्रस्य किंनु कृत्यतमं भवेत् । एतत्ं सर्व्वं समाचक्ष्व सम्यग्वेत्ति यतो भवान् ॥ मत्स्य उवाच । अभिषेकार्द्रशिरसा राज्ञा राजीवलोचन । सहायावरणं कार्य्यं तत्र राज्यं प्रतिष्ठितम् ॥ यदस्याल्पतरं कर्म्म तदप्येकेन दुष्करम् । पुरुषेणासहायेन किन्नु राज्यं महत् पदम् ॥ तस्मात् सहायान् वरयेत् कुलीनान् नृपतिः स्वयम् । शूरान् कुलीनान् जातीयान् बलयुक्तान् श्रिया- न्वितान् ॥ रूपसत्त्वगुणोपेतान् सम्मतान क्षमया युतान् । क्लेशक्षमान् महोत्साहान् धर्म्मज्ञांश्च प्रियं- वदान् ॥ हितोपदेशकालज्ञान् स्वामिभक्तान् यशो- ऽर्थिनः । एवंविधान् सहायांश्च शुभकर्म्मसु योजयेत् ॥ गुणहीनानपि सदा विज्ञाय नृपतिः स्वयम् ॥ कर्म्मस्वेव नियुञ्जीत यथायोग्येषु भारत ! । कुलीनः शीलसम्पन्नो धनुर्व्वेदविशारदः । हस्तिशिक्षाश्वशिक्षासु कुशलः श्लक्ष्णभाषणः ॥ निमित्ते शकुनज्ञाने वेत्ता चैव चिकित्सिते । कृतज्ञः कर्म्मणा शूरस्तथा क्लेशसहो ऋजुः ॥ व्यूहतत्त्वविधानज्ञः फल्गुसारविशेषवित् । राज्ञा सेनापतिः कार्य्यो ब्राह्मणः क्षत्त्रियो यथा ॥ प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः । चित्तग्राहश्च सर्व्वेषां प्रतीहारो विधीयते ॥ यथोक्तवादी दूतः स्याद्देशभाषाविशारदः । शक्तः क्लेशसहो वाग्मी देशकालविभाषितः ॥ विज्ञातदेशकालश्च दूतः स्यात् स महीक्षितः । वक्ता नयस्य यः काले स दूतो भूपतेर्भवेत् ॥ प्रांशवो व्यायताः शूराः दृढभक्ता निराकुलाः । राज्ञा तु रक्षिणः कार्य्याः सदा क्लेशसहा हिताः ॥ अनाहार्य्योऽनृशंसश्च दृढभक्तिश्च पार्थिवे । ताम्बूलधारी भवति नारी वाव्यथ तद्गुणा ॥ षाड्गुण्यविधितत्त्वज्ञो देशभाषाविशारदः । सन्धिविग्रहिकः कार्य्यो राज्ञा नयविशारदः ॥ आयव्ययज्ञो लोकज्ञो देशोत्पत्तिविशारदः । कृताकृतज्ञो भृत्यानां ज्ञेयः स्यादेष रक्षिता ॥ सुरूपस्तरुणः प्रांशुर्दृढभक्तिः कुलोचितः । शूरः क्लेशसहश्चैव खड्गधारी प्रकीर्त्तितः ॥ शूरश्च बलयुक्तश्च गजाश्वरथकोविदः । धनुर्धारी भवेद्राज्ञः सर्व्वक्लेशसहः शुचिः ॥ निमित्तशकुनज्ञानहयशिक्षाविशारदः । हयायुर्व्वेदतत्त्वज्ञो भूवि भागविशेषवित् ॥ स्वामिभक्तो महोत्साहः सर्व्वेषाञ्च प्रियंवदः । बलाबलज्ञो रथिकः स्थिरदृष्टिः प्रियंवदः ॥ शूरश्च कृतविद्यश्च सारथिः परिकीर्त्तितः । अनाहार्य्यः शुचिर्दक्षश्चिकित्सितविदांवरः ॥ सूदशास्त्रविशेषज्ञः सूदाध्यक्षः प्रशस्यते । सूदशास्त्रविधानज्ञाः पराभेद्याः कुलोद्गताः । सर्व्वे महानसे धार्य्या लुप्तकेशनखा जनाः ॥ समः शत्रौ च मित्रे च धर्म्मशास्त्रविशारदः । विप्रमुख्यः कुलीनश्च धर्म्माधिकरणो भवेत् ॥ कार्य्यास्तथाविधास्तत्र द्विजमुख्याः सभासदः । सर्व्वदेशाक्षराभिज्ञः सर्व्वशास्त्रविशारदः ॥ लेखकः कथितो राज्ञः सर्व्वाधिकरणेषु वै । शीर्षोपेतान् सुसम्पूर्णान् समश्रेणिगतान् समान् । अक्षरान् वै लिखेत् यस्तु लेखकः स वरःस्मृतः ॥ उपायवाक्यकुशलः सर्व्वशास्त्रविशारदः । बह्वर्थवक्ता चाल्पेन लेखकः स्याद्भृगूत्तम ॥ वाक्याभिप्रायतत्त्वज्ञो देशकालविभागवित् । अनाहार्य्यो नृपे भक्तो लेखकः स्याद्भृगूत्तम ॥ पुरुषान्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः । धर्म्माधिकरणे कार्य्या जनाह्वानकरा नराः । एवंविधास्तथा कार्य्या राज्ञा दौवारिका जनाः । लोहवस्त्राजिनादीनां रत्नानाञ्च विधानवित् ॥ विज्ञाता फल्गुसाराणामनाहार्य्यः शुचिः सदा । निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्त्तितः ॥ आयद्वारेषु सर्व्वेषु धनान्यक्षसमा नराः । व्ययद्वारेषु च तथा कर्त्तव्या पृथिवीक्षिता ॥ परम्परागतो यः स्यादष्टाङ्गे तु चिकित्सिते । अनाहार्य्यः स वैद्यः स्याद्धर्म्मात्मा च कुलोद्गतः ॥ प्राणाचार्य्यः स विज्ञेयो वचनं तस्य भूभुजः । राजन् राज्ञा सदा कार्य्यं यथाकार्य्यं पृथग्- जनैः ॥ हस्तिशिक्षाविधानज्ञो वनजातिविशारदः । क्लेशक्षमस्तथा राज्ञो गजाध्यक्षः प्रशस्यते ॥ एतैरेव गुणैर्युक्तः स्वासनश्च विशेषतः । गजारोहो नरेन्द्रस्य सर्व्वकर्म्मणि शस्यते ॥ हयशिक्षाविधानज्ञस्तच्चिकित्सितपारगः । अश्वाध्यक्षो महीभर्त्तुः स्वासनश्च प्रशस्यते ॥ अनाहार्य्यश्च शूरश्च तथा प्राज्ञः कुलोद्गतः । दुर्गाध्यक्षः स्मृतो राज्ञ उद्युक्तः सर्व्वकर्म्मसु ॥ वास्तुविद्याविधानज्ञो लघुहस्तो जितश्रमः । दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्त्तितः ॥ यन्त्रमुक्त पाणिमुक्ते अमुक्ते मुक्तधारिते । अस्त्राचार्य्यो निरुद्बेगः कुलशश्च विशिष्यते ॥ वृद्धः कुलोद्गतः सूक्तः पितृपैतामहः शुचिः । राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते ॥ एवं सप्ताधिकारेषु पुरुषाः सप्त तेऽपरे । पञ्च शब्दाधिकरणाः पुरुषाः सप्त तेऽपरम् ॥ अन्तःपुरचराः कार्य्या राज्ञा सर्व्वेषु कर्म्मसु । स्थापनाजातितत्त्वज्ञः सततं प्रतिजाग्रता ॥ राज्ञः स्यादायुधागारे दक्षः कर्म्मसु चोद्यतः । कर्म्माण्यपरिमेयाणि राज्ञां भृगुकुलोद्भव ॥ उत्तमाधममध्यानि बुद्ध्वा कर्म्माणि पार्थिवः । उत्तमाधममध्येषु पुरुषेषु नियोजयेत् ॥ नरकर्म्मविपर्य्यासाद्राजा नाशमवाप्नुयात् । नियोगं पौरुषं भक्तिं श्रुतं शौर्य्यं कुलं नयम् ॥ ज्ञात्वा वृत्तिर्व्विधातव्या पुरुषाणां महीक्षिता । पुरुषान्तरविज्ञाने तत्त्वसारनिबन्धनात् ॥ बहुभिर्म्मन्त्रयेत् कामं राजा मन्त्रं पृथक् पृथक् । मंन्त्रिणामपि नो कुर्य्यान्मन्त्रिमन्त्रप्रकाशनम् ॥ क्वचित् कस्यचिद्बिश्वासो भवतीह सदा नृणाम् । निश्चयश्च सदा मन्त्रे कार्य्य एकेन शूरिणा ॥ भवेद्वा निश्चयावाप्तिः परबुद्ध्यनुजीवनात् । एकस्यैव महीभर्त्तुर्भूयः कार्य्यो विनिश्चयः ॥ ब्राह्मणान् पर्य्युपासीत त्रयीं नाम सुनिश्चिताम् । नासच्छास्त्रवतो मूढांस्ते हि लोकस्य कण्टकाः ॥ वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदः शुचीन् । तेभ्यो हि शिक्षेद्विनयं विनीतात्मा हि नित्यशः । समग्रां वशगां कुर्य्यात् पृथिवीं नात्र संशयः ॥ बहवोऽविनयाद्भ्रष्टा राजानः सपरिच्छदाः । वनस्थाश्चैव राज्यानि विनयात् प्रतिपेदिरे ॥ त्रैविद्येभ्यस्त्रयीविद्यां दण्डनीतिञ्च शाश्वतीम् । आन्वीक्षिकीञ्चात्मविद्यां वार्त्तारम्भांश्च लोकतः ॥ इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् । जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः । यजेत राजा क्रतुभिर्व्वहुभिश्चाप्तदक्षिणैः । धर्म्मार्थञ्चैव विप्रेभ्यो दद्याद्भोगान् धनानि च ॥ सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्बलिम् । स्यात् स्वाध्यायपरो लोके वर्त्तेत पितृबन्धुषु ॥ आवृत्तानां गुरुकुलात् द्विजानां पूजको भवेत् । नृपाणामक्षयो ह्येष विधिर्ब्राह्मो विधीयते ॥ ततः स्तेनानवामित्रा हरन्ति न च नश्यति । तस्माद्राज्ञा विधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥ समोत्तमाधमै राजा ह्याहूय पालयेत् प्रजाः । न निवर्त्तेत संग्रामामात् क्षत्त्रव्रतमनुस्मरन् ॥ संग्रामेष्वनिवर्त्तित्वं प्रजानां परिपालनम् । शुश्रूषा ब्राह्मणानाञ्च राजा निश्रेयसं परम् ॥ कृपणानाञ्च वृद्धानामातुराणाञ्च रोगिणाम् । योगक्षेमञ्च वृत्तिञ्च तथैव परिकल्पयेत् ॥ वर्णाश्रमव्यवस्थानं तथा कार्य्यं विशेषतः । स्वधर्म्मप्रच्युतान् राजा स्वधर्म्म स्थापयेत्तथा ॥ आश्रमे च यथाकार्य्यं तैलभाजनभोजनम् । स्वयमेवानयेद्राजा सत्कृतान्नावमानयेत् ॥ तापसे सर्व्वकार्य्याणि राज्यमात्मानमेव च । निवेदयेत् प्रयत्नेन देववच्चिरमर्च्चयेत् ॥ द्वे प्रज्ञे वेदितव्ये च ऋज्वी वक्रा च मानवैः । वक्रां ज्ञात्वा न सेवेत प्रतिबाधेत चागताम् ॥ नास्य च्छिद्रं परो विद्यात् विद्याच्छिद्रं परस्य तु । गूहेत् कूर्म्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥ विश्वासयेच्चाप्यपरं तत्त्वभूतेन हेतुना । वकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत् ॥ वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् । दृढप्रहारी च भवेत् तथा शूकरवन्नृपः ॥ चित्राकारश्च शिखिवद्दृढभक्तस्तथाश्ववत् । भवेच्च मधुराभाषी तथा कोकिलवन्नृपः ॥ काकशङ्की भवेन्नित्यं नाज्ञातवसतिं वसेत् । नापरीक्षितपूर्ब्बञ्च भोजनं शयणं व्रजेत् ॥ वस्त्रं पूष्पमलङ्कारं यच्चान्यन्मनुजोत्तम ! । न गाहेज्जलसम्बाधं न चाज्ञातजलाशयम् ॥ अपरीक्षितपूर्व्वन्तु पुरुषैराप्तकारिभिः । नारोहेत् कुञ्जरं व्यालं न जातु तुरगं तथा ॥ नाविज्ञातस्त्रियं गच्छेत् नैव देवोत्सवे वसेत् । नरेन्द्रलक्ष्म्या धर्म्मक्ष त्राता यत्तो भवेन्नृपः । सद्वृत्ताश्च तथा पुष्टा सततं प्रतिमानिताः । राज्ञा सहायाः कर्त्तव्याः पृथिवीं जेतुमिच्छता । यथार्हञ्चाथ सुभृतान् राजा कर्म्मसु योजयेत् । धर्म्मिष्ठान् धर्म्मकार्य्येषु शूरान् संग्रामकर्म्मसु ॥ निपुणानर्थकृत्येषु सर्व्वत्र च तथा शुचीन् । स्त्रीषु षण्डान् नियुञ्जीत तीक्ष्णान् दारुणकर्म्मसु । धर्म्मे चार्थे च कामे च भये च रविनन्दन । राजा यथार्हञ्च कुर्य्यादुपधाभिः परीक्षणम् ॥ समतीतोपधान् भृत्यान् कुर्य्याद्धस्तिवनेचरान् । तत्पादान्वेषणे यत्नांस्तदध्यक्षांश्च कारयेत् ॥ एवमादीनि कर्म्माणि नृपैः कर्य्याणि भार्गव । सर्व्वथा नेष्यते राज्ञस्तीक्ष्णोपकरणक्षयः ॥ पापसाध्यानि कर्म्माणि यानि राज्ञां नृपोत्तम । सन्तस्तानि न कुर्व्वन्ति तस्मात्तान् विभृयान्नृपः । नेष्यते पृथिवीशानां तीक्ष्णोपकरणक्रिया । यस्मिन् कर्म्मणि यस्य स्यात् विशेषेण च कौश- लम् । तस्मिन् कर्म्मणि तं राजा परीक्ष्य विनियोजयेत् ॥ पितृपैतामहान् भृत्यान् सर्व्वकर्म्मसु योजयेत् । विना दायादकृत्येषु परीक्ष्य स्वकृतान्नरान् । नियुञ्जीत महाभाग तस्य ते हितकारिणः ॥ परराजगृहात् प्राज्ञ जनसंग्रहकाम्यया । दुष्टान् वाप्यथवादुष्टानाश्रयीत प्रयत्नतः ॥ दुष्टं विज्ञाय विश्वासं न कुर्य्यात्तत्र भूमिपः । वृत्तिं तस्यापि वर्त्तेत जनसंग्रहकाम्यया ॥ राजा देशान्तरं प्राप्तं पुरुषं पूजयेद्भृशम् । ममायं देशसंप्राप्तो बहुमानेन चिन्तितः ॥ तेषाञ्चारेण चारित्रं राजा विज्ञाय नित्यशः । गुणिनां पूजनं कुर्य्यात् निर्गुणानाञ्च शासनम् ॥ कथिताः सततं राजन् राजानश्चारचक्षुषः । स्वके देशे परे देशे ज्ञातशीलान् विचक्षणान् ॥ अनाहार्य्यान् क्लेशसहान् नियुञ्जीत सदा चरान् । जनस्याविदितान् सौम्यांस्तथाज्ञातान् परस्परम् ॥ बणिजो मन्त्रकुशलान् सांवत्सरचिकित्सकान् । तथा प्रव्रजिताकारान् चारान् राजा नियो- जयेत् ॥ नैकस्य राजा श्रद्दध्यात् चारस्यापि च भाषिते । द्वयोः सम्बन्धमाज्ञाय श्रद्दध्यान्नृपतिस्ततः ॥ परस्परस्याविदितौ यदि स्याताञ्चरावुभौ । तस्माद्राजा प्रयत्नेन गूढांश्चारान्नियोजयेत् ॥ राज्यस्य मूलमेतावत् या राज्ञश्चारदृष्टिता । चाराणामपि यत्नेन राज्ञा कार्य्यं परीक्षणम् ॥ विरज्यते तथा केन विज्ञेयं तन्महीक्षिता । अनुरागात् कथं लोके कर्म्म कार्य्यं महीक्षिता ॥ लोकरागापरागौ च भृत्यानाञ्च गुणागुणान् । सर्व्वं राज्ञां चरायत्तं तेषु यत्नपरो भवेत् ॥ कर्म्मणा केन मे लोके जनः सर्व्वोऽनुरज्यते । विरज्यते केन तथा विज्ञेयं तन्महीक्षिता । विरोधजनकं लोके वर्ज्जनीयं विशेषतः ॥ जनानुरागप्रभवा हि लक्ष्मी राज्ञां मता भार्गववंशचन्द्र । तस्मात् प्रयत्नेन नरेन्द्रमुख्यैः कार्य्योऽनुरागो भुवि मानवेषु ॥” इति मात्स्ये २१५ अध्यायः ॥ * ॥
अपरञ्च । राजोवाच । “बहवो भूपतेर्धर्म्मास्तान् वक्तुं नहि शक्यते । तस्मात् समासतो वच्मि महाभाग निशामय ॥ पृथिवी वैष्णवी पुण्या सदा प्रियतमा हरेः । नारायणादृते नान्यो वसुमत्याः पतिर्भवेत् ॥ नारायणांशजो राजा मनुष्यो न कदाचन । अतस्तु दुर्नयं त्यक्त्वा सर्व्वां नीतिं समाचरेत् ॥ नीतिग्राही नृपो यस्तु विपत्तिर्नास्ति तस्य वै । चिरं भुनक्ति पृथिवीं कण्टकैः परिवर्ज्जितः ॥ यस्मै न रोचते नीतिर्भूपालाय दुरात्मने । भ्रष्टश्रीरचिरेणैव स भवेन्नात्र संशयः ॥ आयुर्ब्बलं यशो वित्तं विजयं सुखमिच्छता । मन्त्रित्वे पण्डितो राज्ञा नियोज्यः सर्व्वदैव हि ॥ अवज्ञया महीभर्त्तुस्त्यजन्ति सदसीं बुधाः । सभायां बुधहीनायां नीतिर्ब्बलवती न हि ॥ ततो नीतौ विपन्नायां सहसा धरणीपतेः । राजश्रियो विनश्यन्ति सकोषबलवाहनाः ॥ ब्राह्मणान् गणकांश्चैव वैद्यांश्च बान्धवांस्तथा । नृपाः कल्याणमिच्छन्तो न द्विषन्ति कदाचन ॥ गतश्रीर्गणकद्बेष्टा वैद्यद्वेष्टायुर्व्वर्ज्जितः । ज्ञातिद्वेष्टा निष्कुलः स्यात् द्विजद्वेष्टास्विलार्त्ति- भाक् ॥ राजानः पितरः प्रोक्ताः पुत्त्रा जनपदास्तथा । अतो भूपाः पालयन्ति प्रजाः पुत्त्रानिवौरसान् पौरलोकबधूं राजा पश्येत् पुत्त्रबधूमिव । पौरलोके तथा कुर्य्यात् यथा स्नेहो निजात्मजे ॥ प्रजापीडाकरा ये च भूपाला अतिपापिनः । शिरस्था विपदस्तेषां विज्ञेया दीर्घदर्शिभिः ॥ विवेकिनो महीपालाः पालयन्ति यथा प्रजाः । तथा तानपि देवेशः पालयत्यनिशं हरिः ॥ प्रजानां पालनं दानं द्वेऽपि राज्ञां शुभावहे । द्वाभ्यां ये वर्जिता भूपास्ते विज्ञेया नृपाधमाः ॥ दुष्टानां शासनञ्चैव शिष्टानां प्रतिपालनम् । प्रकुर्व्वन्तो महीपालाश्चिरं नन्दन्ति भूतले ॥ न्यायेनोपार्ज्जितं वित्तं यत्नाद्रक्षेन्महीपतिः । निर्व्वित्तो हि महीपालो विपत्त्यां न हि निस्त- रेत् ॥ नृपाः कल्याणमिच्छन्तो निजराज्यशुभाशुभम् । पश्यन्ति नित्यं विप्रेन्द्र ! सत्वराश्चारचक्षुषः ॥ परचक्रभयं यावत् नायाति चिन्तयेद्भयम् । आगते तु भये भूप आचरेन्निर्भयो यथा ॥ ज्ञातौ वापि च मित्रे वा पुत्ते वापि च मन्त्रिणि । कुर्य्यान्मुखेन गाम्भीर्य्यं मनसा प्रेम केवलम् ॥ मन्त्रिणो ज्ञातयः पुत्त्राः प्रजाश्च भ्रातरस्तथा । गाम्भीर्य्यहीनं भूपालं मन्यन्ते न हि भूपवत् ॥ तिष्ठन्ति प्रथमं दूरे वसन्ति पुरतस्तदा । लोकाः श्रियं यदिच्छन्ति त्यक्तगाम्भीर्य्यभूपतेः । एकस्य मन्त्रिणो राज्ञा चिरं राजत्वमिच्छता । कर्त्तव्याः सकले राज्ये वृद्धयो नैव भूसुर ॥ अत्यन्तलब्धवृद्धीनां भृत्यानां सम्पदं हरेत् । तस्यां सम्पदि भूपालो भृत्यमन्यं नियोजयेत् ॥ मूर्खः स्त्रीविजितो राजा गीतवाद्यरतः सदा । चतुरङ्गबलैर्हीनः सहसा विपदं व्रजेत् ॥ स्वाचारग्रहणं सत्त्वं स्ववाक्यप्रतिपालनम् । गाम्भीर्य्यञ्चेति भूपानां लक्षणानि द्बिजोत्तम ! ॥ स कथं नृपतिर्यस्तु प्रतापेन विवर्ज्जितः । स कथं नृपतिर्येन न जिता परमेदिनी ॥ जितायां परमेदिन्यां यावत् पादं व्रजेन्नृपः । प्रतिपादेऽश्वमेधस्य फलं प्राप्नोति चाक्षयम् ॥ परभूमिजयाकाङ्क्षी हतो वा नृपतिर्युधि । तदा गच्छेत् परं धाम वियुक्तः सर्व्वपातकैः ॥ युधि प्राप्तजयो राजा प्राप्नोति परमं पदम् । स साहसप्राप्तमृत्युर्द्दिवीन्द्रसम्पदं लभेत् ॥ त्यक्तसत्त्वं त्यक्तशस्त्रं पलायनपरायणम् । योद्धारं युधि यो हन्यात् स भूपो यात्यधो- गतिम् ॥ पलायनपरो युद्धे तद्धन्ता च द्बिजोत्तम ! । तावुभावपि तिष्ठेतां नरकेऽत्यन्तदुःसहे ॥ युधि साहसवान् योद्धा तद्धन्ता च महीसुर । तिष्ठेतां द्वावपि स्वर्गे यावच्चन्द्रदिवाकरौ ॥ बहुनात्र किमुक्तेन संक्षेपादुच्यते मया । प्रजापालनकृद्राजा कदाचिन्नावसीदति ॥” इति पाद्मे क्रियायोगसारे २० अध्यायः ॥