वाचस्पत्यम्
राजपथ || पु० पथां राजा राजगमनयोग्यो वा पन्थाः अच्- समा० । “धनूंपि दश विस्तारे श्रीमान् राजपथः स्मृतः । नृवाजिरथनागानामसंवाधः सुसञ्चरः” इत्युक्ते राज- मार्गे देवीपु० ।
शब्दकल्पद्रुमः
राजपथः || पुं, (राज्ञां पन्थाः । “ऋक्पूरब्धुःपथा- मानक्षे ।” ५ । ४ । ७४ । इत्यः ।)
राजमार्गः । तस्य लक्षणं यथा, —
“धनूंषि दश विस्तीर्णः श्रीमान्राजपथः कृतः । नृवाजिरथनागानामसम्बाधः सुसञ्चरः ॥” इति देवीपुराणम् ॥ (यथा, कुमारसम्भवे । ७ । ६३ । “तावत्पताकाकुलमिन्दुमौलि- रुत्तोरणं राजपथं प्रपेदे ॥”)