वाचस्पत्यम्
राजपलाण्डु || पु० पलाण्डूगां राजा श्रेष्ठत्वात् राजद० । रक्तवर्णपलाण्डौ राजनि० ।
शब्दकल्पद्रुमः
राजपलाण्डुः || पुं, (पलाण्डूनां राजा । राज- दन्तादित्वात् परनिपातः ।)
रक्तवर्णपलाण्डुः । लाल प्याँज इति भाषा ॥ तत्पर्य्यायः । जव- नेष्टः २ नृपाह्वयः ३ राजप्रियः ४ महामूलः ५ दीर्घपत्रः ६ रोकः ७ नृपेष्टः ८ नृपकन्दः ९ महाकन्दः १० नृपप्रियः ११ रक्तकन्दः १२ राजेष्टः १३ । अस्य गुणाः । शिशिरत्वम् । पित्तकफनाशित्वम् । दीपनत्वम् । बहुनिद्राकर- त्वञ्च । इति राजनिर्घण्टः ॥