वाचस्पत्यम्
राजबदर || न० राज्ञो वदरमिव प्रियत्वात् । १ रक्तामलके २ लवणे च मेदि० बदराणां राजा राजद० प० । ३ उ- त्तमकोलौ पु० राजनि० ।
शब्दकल्पद्रुमः
राजबदरं || क्ली (राज्ञो बदरमिव प्रियत्वात् ।)
रक्तामलकम् । लवणम् । इति मेदिनी ॥
शब्दकल्पद्रुमः
राजबदरः || पुं, (बदराणां राजा । राजदन्ता- दित्वात् परनिपातः ।)
उत्तमकोलिः । तत्प- र्य्यायः । नृपश्रेष्ठः २ नृपबदरः ३ राजवल्लभः ४ पृथुकोलः ५ तनुबीजः ६ मधुरफलः ७ राज- कोलः ८ । अस्य गुणाः । सुमधुरत्वम् । शिशि- रत्वम् । दाहार्त्तिपित्तवातहरत्वम् । वृष्यत्वम् । वीर्य्यवृद्धिकरत्वत् । शोषश्रमनाशित्वञ्च । इति राजनिर्घण्टः ॥