संस्कृत-शब्दकोशः

राजरीति राजलक्ष्मन्

राजर्षि

वाचस्पत्यम्

राजर्षि ||‍ पु० राजा ऋषिरिव श्रेष्ठत्वात् संयतत्वाच्च । ३ राज- श्रेष्ठे, २ यतात्मनि नृपे च ।


शब्दकल्पद्रुमः

राजर्षिः || पुं, (राजा ऋषिरिव श्रेष्ठत्वात् ।)
ऋतपर्णादिराजः । इति त्रिकाण्डशेषः ॥ तस्य स्मरणं कलिनाशनम् । यथा, —
“कर्कोटकस्य नागस्य दमयन्त्या नलस्य च । ऋतपर्णस्य राजर्षेः कीर्त्तनं कलिनाशनम् ॥” इति महाभारतम् ॥



Correction: