वाचस्पत्यम्
राजसर्षप || पु० सर्षपाणां राजा श्रेष्ठत्वात् राजद० । (राइ- सर्षा) १ सर्षपभेदे हेमच० । “तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते” उक्ते २ रिमाणभेदे च विश्वः ।
शब्दकल्पद्रुमः
राजसर्षपः || पुं, (सर्षपाणां राजा श्रेष्ठत्वात् । पर- निपातः ।)
सर्षपविशेषः । राजसर्षा इति भाषा ॥ राइ इति केचित् ॥ तत्पर्य्यायः । कृष्णिका २ राजिका ३ सूरी ४ मुष्ठकः ५ । मुष्ठक इत्यत्र व्यष्टक इति वा पाठः । इति रत्नमाला ॥ क्षवः ६ क्षुताभिजननः ७ । क्षुताभिजनन इत्यत्र क्षुधाभिजनन इति वा पाठः । इति हेमचन्द्रः ॥ कृष्णा ८ तीक्ष्ण- फला ९ राजी १० कृष्णसर्षपाख्या ११ । अस्य गुणाः । तिक्तत्वम् । कटुत्वम् । उष्णत्वम् । वात- शूलगुल्मकण्डुकुष्ठव्रणनाशित्वम् । पित्तदाह- प्रदत्वञ्च । इति राजनिर्घण्टः ॥ (चतुर्व्विंशति- त्रसरेणुपरिमित-परिमाणविशेषः । यथा, मनुः । ८ । १३३ । “त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः । ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः ॥” “त्रसेत्यादि । अष्टौ त्रसरेणवो लिक्षैका परि- माणेन ज्ञेया तास्तिस्रो लिक्षा राजसर्षपो ज्ञेयः । ते राजसर्षपास्त्रयो गौरसर्षपो ज्ञेयः ॥” इति तट्टीकायां कुल्लूकः ॥)