संस्कृत-शब्दकोशः

राजहर्षण राजहस्तिन्

राजहंस

वाचस्पत्यम्

राजहंस ||‍ पुंस्त्री० हंसानां राजा श्रेष्ठत्वात्राजद० पर० । रक्त- वर्णचञ्चुचरणयुक्ते श्वेतपक्षके हंसभेदे अमरः । २ कलहंसे च मेदि० । उभयार्थे स्त्रियां ङीष् । राजा हंस इव सारग्रहणात् । ३ नृपश्रेष्ठे ।


शब्दकल्पद्रुमः

राजहंसः || पुं, (हंसानां राजा श्रेष्ठत्वात् । राज- दन्तादित्वात् परनिपातः ।)
चञ्चुचरण- लोहितश्वेतवर्णहंसः । इत्यमरः । २ । ५ । २४ ॥ (यथा, कुमारे । १ । ३४ । “सा राजहंसैरिव सन्नताङ्गी गतेषु लीलाञ्चितविक्रमेषु । व्यनीयतप्रत्युपदेशलुब्धै- रादित्सुभिर्नूपुरशिञ्जितानि ॥”)
कदम्बः । कलहंसः । नृपोत्तमः । इति मेदिनी ॥



Correction: