संस्कृत-शब्दकोशः

राजार्क राजार्हा

राजार्ह

वाचस्पत्यम्

राजार्ह ||‍ न० राजानमर्हति अर्ह—अण् । १ अगुरुचन्दने २ राज- योग्ये त्रि० राजनि० ३ जम्ब्वां स्त्री मेदि० ।


शब्दकल्पद्रुमः

राजार्हं || क्ली (राजानमर्हतीति । अर्ह + अण् ।)
अगुरु । (अस्य पर्य्यायो यथा, —
“अगुरु प्रवरं लोहं राजार्हं योगजन्तथा । वंशिकं कृमिजं वापि कृमिजग्धमनार्यकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
राजयोग्ये, त्रि । इति मेदिनी । हे, २३ ॥ (यथा, गो० रामायणे । ३ । ४९ । ४२ । “तथेदमुपपन्नं मे मृगरूपस्य धर्षणम् । राजार्हाणि च रत्नानि रत्नभाजो वयं ध्रुवम् ॥”)



Correction: