वाचस्पत्यम्
राजालाबू || स्त्री राजते राजा अलावूः कर्म० । मिष्टालाब्वाम् मदनवि० ।
शब्दकल्पद्रुमः
राजालाबूः || स्त्री (अलावूनां राजा । राज- दन्तादित्वात् परनिपातः ।)
स्वादुतुम्बी । मिठा लाउ इति भाषा । तत्पर्य्यायः । महातुम्बो २ मधुरालावुनी ३ शाकालावूः ४ तुम्बकः ५ भक्ष्यालावूः ६ अलावुनी ७ मिष्टतुम्बी ८ । अस्याः फलगुणाः । वृष्यत्वम् । कफपित्तहर- त्वम् । गुरुत्वञ्च । इति मदनविनोदः ॥