संस्कृत-शब्दकोशः

राजालुक राजाहि

राजावर्त

वाचस्पत्यम्

राजावर्त्त ||‍ पु० राजानमावर्त्तयति अनुकूलयति आ—वृत— णिचण् । १ उपरत्नभेदे राजनि० । २ विराटदेशीय- हीरके हेमच० ।


शब्दकल्पद्रुमः

राजावर्त्तः || पुं, (राजानं आवर्त्तयति आनन्द- यतीति । आ + वृत् + णिच् + अण् । यद्बा, राजः शोभमान आवर्त्तो यत्र ।)
उपरत्नभेदः । रेउटी इति हिन्दी भाषा । तत्पर्य्यायः । नृपा- वर्त्तः २ राजात्यावर्त्तकः ३ आवर्त्तमणिः ४ आवर्त्तः ५ । अस्य गुणाः । मृदुत्वम् । स्निग्ध- त्वम् । शिशिरत्वम् । पित्तनाशनत्वम् । भूषणे प्रयोजितश्चेत् नृणां बहुभाग्यकरत्वञ्च । इति राजनिर्घण्टः ॥ विराटदेशजहीरकः । तत्- पर्य्यायः । विराटजः २ राजपट्टः ३ । इति हेमचन्द्रः । ४ । १३२ ॥ (यथा, कथासरित्- सागरे । ७३ । ३३९ । “राजावर्त्तोपलश्यामतले सद्वासवेश्मनि ॥” तथास्य गुणाः । “राजावर्त्तः कटुस्तिक्तः शिशिरः पित्तनाशनः । राजावर्त्तः प्रमेहघ्नः छर्द्दिहिक्कानिवारणः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: