वाचस्पत्यम्
राजेन्द्र || पु० राजा इन्द्र इव श्रेष्ठत्वात् । “चतुर्योजनपर्य्यन्त- मधिकारी नृपो भवेत् । यो राजा तच्छतगुणः स एव मण्डलेश्वरः । तस्माद्दशगुणो राजा राजेन्द्रः” इत्युक्ता- धिकारवति भूपतिभेदे व्रह्मवै० ज० ख० ८६ अ० ।
शब्दकल्पद्रुमः
राजेन्द्रः || पुं, (राजसु इन्द्र इव श्रेष्ठत्वात् ।)
मण्डलेश्वरात् दशगुणो राजा । यथा, —
“चतुर्योजनपर्य्यन्तमधिकारं नृपस्य च । यो राजा तच्छतगुणः स एव मण्डलेश्वरः । तस्माद्दशगुणो राजा राजेन्द्रः परिकीर्त्तितः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८६ अध्यायः ॥ (राजश्रेष्ठः । यथा, महाभारते । २ । ४५ । ४१ । “कर्म्मणैतेन राजेन्द्र । धर्म्मश्च सुमहान् कृतः ॥”)