संस्कृत-शब्दकोशः

रामगिरि रामच्छर्दनक

रामचन्द्र

वाचस्पत्यम्

रामचन्द्र ||‍ पु० रामश्चन्द्र इवाह्लादकत्वात् । दशरथज्येष्ठपुत्रे श्रीरामे शब्दर० ।


शब्दकल्पद्रुमः

रामचन्द्रः || पुं, (रामश्चन्द्र इवाह्लादकत्वात् ।)
श्रीरामः । इति शब्दरत्नावली ॥ (लक्ष्मण- भट्टसुतः स्वनामख्यातः कविविशेषः । स तु अयोध्यानगरे वैराग्यशृङ्गारार्थद्वयोपेतं सटीकं रसिकरञ्जनं नाम काव्यं प्रणीतवान् । तस्यादि- मश्लोको यथा, —
“शुभारम्भेऽदम्भे महितमतिडिम्भे ङ्गितशतं मणिस्तम्भेरम्भे क्षणसकुचकुम्भे परिणतम् । अनालम्बे लम्बे पथि पदविलम्बेऽमितसुखं तमालम्बे स्तम्बेरमवदनमम्बेक्षितमुखम् ॥” एतट्टीकान्तिमश्लोकौ यथा, —
“शृङ्गारवैराग्यशतं सपञ्च- विंशत्ययोध्यानगरे व्यधत्त । अब्दे वियद्वारणबाणचन्द्रे श्रीरामचन्द्रोऽनु च तस्य टीकाम् ॥ श्रीरामन्द्रकविना काव्यमिदं व्यरचि विरति- बीजतया । रसिकानामपि रतये शृङ्गारार्थोऽपि संगृहीतो- ऽत्र ॥” एतत्कविप्रणीतानि रोमावलीशतकप्रभृतीन्य- न्यान्यपि काव्यानि दृश्यन्ते ॥)



Correction: