संस्कृत-शब्दकोशः

रामण रामतरुणी

रामणीयक

वाचस्पत्यम्

रामणीयक ||‍ न० रमणीयस्य भावः रमणीयमेव वा योप- धत्वात् वुञ् । १ रमणीयत्वे “मणिहारावलिरामणी- यकम्” नैष० २ रमणीवे च ।


शब्दकल्पद्रुमः

रामणीयकं || त्रि रमणीयम् । इत्यमरटीका ॥ (यथा, महाभारते । १ । २६ । ८ । “रामणीयकमागच्छन्मात्रा सह भुजङ्गमाः ॥” रामणीयकं रमणीयं द्बीपमिति शेषः ॥ क्ली, रमणीयस्य भावः कर्म्म वा । रमणीय + “योपधाद्गुरूपोत्तमाद्बुञ् ।” ५ । १ । १३२ । इति वुञ् । रमणीयत्वम् ॥ यथा, किराते । १ । ३९ । “पुरोपनीतं नृप ! रामणीयकं द्विजातिशेषेण यदेतदन्धसा । तदद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः ॥”)



Correction: