वाचस्पत्यम्
रामनवमी || स्त्री रामस्य जन्माधारो नवमी । चैत्तशुक्ल- नवम्याम् । “चैत्रे मासि नवम्यान्तु जातो रामः खयं हरिः” अगस्त्यसंहिता । “प्राप्ते श्रीरामनवमीदिने मर्त्यो विमूढवीः । उपोषणं न कुरुते कुम्भीपाकेन पच्यते” ति० त० ।
शब्दकल्पद्रुमः
रामनवमी || स्त्री (रामस्य जन्मतिथिरूपा नवमी । मध्यपदलोपिकर्म्मधारयः ।)
चैत्रशुक्लनवमी । सा च श्रीरामचन्द्रस्य जन्मतिथिः । यथा, —
“अगस्त्यसंहितायाम् । ‘चैत्रे मासि नवम्यान्तु जातो रामः स्वयं हरिः । पुनर्व्वस्वृक्षसंयुक्ता सा तिथिः सर्व्वकामदा ॥ पुनर्व्वस्वृक्षसंयोगः स्वल्पोऽपि यदि लभ्यते । चैत्रशुक्लनवम्यान्तु सा तिथिः सर्व्वकामदा ॥ श्रीरामनवमी प्रोक्ता कोटिसूर्य्यग्रहाधिका । तस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितः । यत्किञ्चित् क्रियते कर्म्म तद्भवक्षयकारकम् ॥ उपोषणं जागरणं पितॄनुद्दिश्य तर्पणम् । तस्मिन् दिने तु कर्त्तव्यं ब्रह्मप्राप्तिमभीप्सुभिः ॥’ चैत्रपदं चान्द्रपरम् । ‘मेषं पूषणि संप्राप्ते लग्ने च कर्कटाह्वये । आविरासीत् सकलया कौशल्यायां परःपुमान् ॥’ अत्र मेषस्थसूर्य्ये चान्द्रचैत्रस्यैव सम्भवात् तिथि- कृत्यत्वाच्च । तथा । ‘तस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितः । जपेदेकान्त आसीनो यावत् स्याद्दशमीदिनम् ॥ तेनैव स्यात् पुरश्चर्य्या दशम्यां भोजयेद्द्विजान् । भक्ष्यभोज्यैर्ब्बहुविधैर्भक्त्या दद्याच्च दक्षिणाम् । कृतकृत्यो भवेत्तेन सद्यो रामः प्रसीदति ॥’ तथा । ‘चैत्रशुक्ला तु नवमी पुनर्व्वसुयुता यदि । सैव मध्याह्नयोगेन महापुण्यतमा भवेत् ॥ नवमी चाष्टमीविद्धा त्याज्या विष्णुपरायणैः । उपोषणं नवम्यान्तु दशम्यामेव पारणम् ॥’ एतद्वचनद्बयं कालमाघवीयेऽपि । किन्तु महा- पुण्या इत्यत्र महाफलेति पाठः । शुद्धेति- श्रवणात् सर्व्वत्र शुद्धायामृक्षादरो न विद्धाया- मिति । अतएवाष्टमीविद्धा नवमी सनक्षत्रापि नोपोष्या । इति माधवाचार्य्यः ॥ सैव तादृश्येव नतु विद्धा । यदा तु परदिने एकादश्यां दशमी पारणयोग्या तदा दशमीयुक्ता नवम्युपोष्या । वैष्णवैर्विष्णुपरायणैरितिश्रवणात् । अवैष्णवैस्तु अष्टमीविद्धैव ग्राह्या । यदा तु पूर्ब्बदिने अष्टमी- विद्धा नवमी परत्र दशमीयुता नवमी एका- दशीदिने च न पारणयोग्या दशमी तदा नक्षत्रयोगायोगेऽप्यष्टमीविद्धैव ग्राह्या । परदिने दशम्यामेव पारणमिति नियमात् । तथा च रामार्च्चनचन्द्रिकायाम् । ‘दशम्यादिषु वृद्धिश्चेत् त्याज्या विद्धैव वैष्णवैः । तदन्येषान्तु सर्व्वेषां व्रतं तत्रैव निश्चितम् ॥ दशम्यामेवशब्देन दशमीं नैव लङ्घयेत् । निश्चित्यैवं विचारेण नवमीव्रतमाचरेत् ॥’ इति कारिकाभ्यामगस्त्यसंहिताव्याख्यानम् ॥ वस्तुतस्तु दशमीपारणसत्त्वे सर्व्वैरेवाष्टमीबिद्धा नोपोष्या । विष्णुपरायणैरिति तु विष्णुपरायण- त्वेन भवितव्यमित्युपदेशपरं न तु कर्त्तृविशे- षणम् । अगस्त्येनावैष्णवस्य विद्धोपवासानुप- देशात् । कर्त्तृभेदे विधिद्बयकल्पनापत्तेश्च । अत- एव माधवाचार्य्येण सामान्यत एव विद्धा निषिद्धा । अगस्त्यसंहितायामस्य नित्यत्वमाह । ‘प्राप्ते श्रीरामनवमीदिने मर्त्यो विमूढधीः । उपोषणं न कुरुते कुम्भीपाकेषु पच्यते ॥ यस्तु रामनवम्यान्तु भुङ्क्ते मोहाद्विमूढधीः । कुम्भीपाकेषु घोरेषु पच्यते नात्र संशयः ॥’ अत्र मर्त्य इत्युपादानात् नरमात्रस्याधिकारः । एवञ्च । ‘कुर्य्याद्रामनवम्यां य उपोषणमतन्द्रितः । मातुर्गर्भमवाप्नोति नैव रामो भवेत् खयम् ॥ तस्मात् सर्व्वात्मना सर्व्वे कृत्वैवं नवमीव्रतम् । मुच्यन्ते पातकैः सर्व्वैर्यान्ति ब्रह्म सनातनम् ॥’ इति फलकीर्त्तनं प्रागुक्तसंयोगपृथक्त्वन्यायात् सिद्धम् । अगस्त्यसंहितायाम् । ‘शालग्रामशिलायाञ्च तुलसीदलकल्पिता । पूजा श्रीरामचन्द्रस्य कोटिकोटिगुणाधिका ॥’ तत्रानुष्ठानं अगस्त्यसंहितातः संक्षिप्य लिख्यते । कृतप्रातःस्नानादिः । ‘उपोष्य नवमीन्त्वद्य यामेष्वष्टसु राघव । तेन प्रीतो भव त्वंभो संसारात्त्राहि मां हरे ॥’ इति निवेद्य ॥ ‘कोमलाङ्गं विशालाक्षमिन्द्रनीलसमप्रभम् । दक्षिणांशे दशरथं पुत्त्रावेक्षणतत्परम् ॥ पृष्ठतो लक्षणं देवं सच्छत्रं कनकप्रभम् । पार्श्वै भरतशत्रुघ्नौ तालवृन्तकरावुभौ । अग्रे व्यग्रं हनूमन्तं रामानुग्रहकाङ्क्षिणम् ॥’ एवं ध्यात्वा श्रीरामं पूजयेत् । स्नानमन्तस्तु । ‘इन्द्रोऽग्निश्च यमश्चैव नैरृतो वरुणोऽनिलः । कुवेर ईशो ब्रह्माहिर्दिक्पालाः स्नापयन्तु ते ॥’ अहिरनन्तः । कौशल्यां पूजयेत् । मन्त्रस्तु । ‘रामस्य जननी चासि राममयमिदं जगत् । अतस्त्वां पूजयिष्यामि लोकमातर्नमोऽस्तु ते ॥’ तथा । ‘नमो दशरथायेति पूजयेत् पितरं ततः । ततोऽनुज्ञाप्य देवेशं परिवारान् समर्च्चयेत् । पूर्ब्बषट्कोणकोणेषु हृदयादीनि च क्रमात् ॥’ हृदयादीनि यथा । रां हृदयाय नमः । रीं शिरसे स्वाहा । रूं शिखायै वषट् । रैं कव- चाय हुम् । रौं नेत्राभ्यां वौषट् । रः अस्त्राय फट् । तथा, — ‘हनूमन्तं ससुग्रीवं भरतं सविभीषणम् । लक्ष्मणाङ्गदशत्रुघ्नं जाम्बवन्तं दलादिषु ॥ धूम्रं जयन्तं विजयं सुराष्ट्रं राष्ट्रवर्द्धनम् । अकोपं धूम्रपालाख्यं सुमन्त्रं दलमध्यतः । दलाग्रे लोकपालांश्च तदस्त्राणि तदग्रतः ॥’ लोकपाला इन्द्रादयो दश । तदस्त्राणि वज्र- शक्तिदण्डखड्गपाशाङ्कुशगदाशूलपद्मचक्राणि । मध्याह्ने जन्म भावयेत् । ‘उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां तिथौ लग्ने कर्कटके पुनर्व्वसुदिन मेर्ष गते पूषणि । निर्दग्धुं निखिलाः पलाशसमिधो मध्याद- योध्यारणे- राविर्भूतमभूदपूर्ब्बविभवं यत्किञ्चिदेकं महः ॥’ पलाशा राक्षसाः । ‘मत्वैवं वादयेद्वाद्यानर्घ्यं दद्याज्जगत्पतेः । फलपुष्पाम्बुसंपूर्णं गृहीत्वा शङ्खमुत्तमम् । अशोकरत्नकुसुमैर्युक्तञ्च तुलसीदलैः ॥’ मन्त्रस्तु । ‘दशाननवधार्थाय धर्म्मसंस्थापनाय च । दानवानां विनाशाय दैत्यानां निधनाय च ॥ परित्राणाय साधूनां रामो जातः स्वयं हरिः । गृहाणार्घ्यं मया दत्तं भ्रातृभिः सहितो मम ॥ पुष्पाञ्जलिं पुनर्दत्त्वा यामे यामेष्वतन्द्रितः । पूजयेद्विधिवद्भक्त्या दिवारात्रं नयेद्बुधः ॥’ तदयं संक्षेपः । शुद्धायां नक्षत्रयुक्तायां विवादाभावः । विद्धायान्तु एकादशीदिने दशमी पारणयोग्या न चेत् तदा नक्षत्रयोगा- योगेऽपि अष्टमीविद्धायाम् । पारणयोग्या चेत् तदा अष्टमीविद्धां त्यक्त्वा परेऽहनि उपवासः ।” इति तिथ्यादितत्त्वम् ॥