वाचस्पत्यम्
रामशर || पु० कर्म० । शरवृक्षभेदे राजनि० स हि काण्डद्वारा वाणहेतुत्वात् मनोहरः ।
शब्दकल्पद्रुमः
रामशरः || पुं, (रामस्य शर इव ।)
शरवृक्षभेदः । तत्पर्य्यायः । रामकाण्डः २ रामबाणः ३ रामेषुः ४ अपर्व्वदण्डः ५ दीर्घः ६ नृपप्रियः ७ । तस्य मूलगुणाः । ईषदुष्णत्वम् । रुचिप्रदत्वम् । रसे अम्लत्वम् । कषायत्वम् । पित्तकारित्वम् । कफवातनाशित्वञ्च । इति राजनिर्घण्टः ॥ (रामचन्द्रस्य बाणोऽपि ॥)