संस्कृत-शब्दकोशः

रायभाटी रालकार्य

राल

वाचस्पत्यम्

राल ||‍ पु० रा—अलच् । सालवृक्षनिर्य्यासे (धुना) भावप्र० । “रालो हिमो गुरुस्तिक्तः कषायो ग्राहको हरेत् । दोपास्रस्वेदवीसर्पज्वरव्रणविपादिकाः । ग्रहमग्नाग्नि- दग्धांश्च शूलातीसारनाशनः” भावप्र० ।


शब्दकल्पद्रुमः

रालः || पुं, सालवृक्षनिर्यासः । धुना इति भाषा । तत्पर्य्यायः । सर्ज्जरसः २ सालः ३ कनक- लोद्भवः ४ ललनः ५ सालनिर्यासः ६ देवेष्टः ७ शीतलः ८ बहुरूपः ९ सालरसः १० सर्ज्ज- निर्यासकः ११ सुरभिः १२ सुरधूपः १३ यक्ष- धूपः १४ अग्निवल्लभः १५ कलः १६ कल- लजः १७ । अस्य गुणाः । शिशिरत्वम् । स्निग्धत्वम् । कषायत्वम् । तिक्तत्वम् । संग्रह- त्वम् । वातपित्तस्फोटकण्डूव्रणनाशित्वञ्च । अस्य पानलेपगुणौ । शिशिरत्वम् । प्रदरामयशान्ति- कारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “रालस्तु सालनिर्यासस्तथा सर्ज्जरसः स्मृतः । देवधूपो यक्षधूपस्तथा सर्व्वरसश्च सः ॥ रालो हिमो गुरुस्तिक्तः कषायो ग्राहको हरेत् । दोषास्रस्वेदवीसर्पज्वरव्रणविपादिकाः । ग्रहभग्नाग्निदग्धांश्चमूलातीसारनाशनः ॥” इति भावप्रकाशः ॥



Correction: