वाचस्पत्यम्
राव || पु० रु—घञ् । शब्दे हारा० ।
शब्दकल्पद्रुमः
रावः || पुं, (रवणमिति । रु ल ध्वनौ + भावे घञ् ।)
शब्दः । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । २१ । १८ । “गम्भीरं तिमिमकरोग्रसंकुलं तं गर्ज्जन्तं जलचररावरौद्रनादैः । विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्तम् ॥”)