संस्कृत-शब्दकोशः

रावण रावणारि

रावणगङ्गा

वाचस्पत्यम्

रावणगङ्गा ||‍ स्त्री रावणनिर्म्मिता गङ्गा नदी । सिंहल- देशस्थे नदीभेदे गरुडपु० ७ अ० ।


शब्दकल्पद्रुमः

रावणगङ्गा || स्त्री (रावणेन कृता गङ्गा ।)
सिंहल- देशस्थनदीविशेषः । यथा, — सूत उवाच । “दिवाकरस्तस्य महामहिम्नो महासुरस्योत्तमरत्नबीजम् । असृग्गृहीत्वा चरितं प्रतस्थे निस्त्रिंशनीलेन नभस्तलेन ॥ जेत्रा सुराणां समरेष्वजस्रं वीर्य्यावलेपोद्धतमानसेन । लङ्काधिपेनार्द्धपथं समेत्य स्वर्भानुनेव प्रसभं निरुद्धम् ॥ तत् सिंहलीचारुनितम्बविम्ब- विक्षोभितागाधमहाह्नदायाम् । पूगद्रुमाबद्धतटद्वयायां मुमोच सूर्य्यः सरिदुत्तमायाम् ॥ ततः प्रभृति सा गङ्गा तुल्यपुण्यफलोदया । नाम्ना रावणगङ्गेति प्रथिमानगुपागता ॥ ये तु रावणगङ्गायां जायन्ते कुरुविन्दकाः । पद्मरागा घनं रागं विभ्राणाः स्वस्फटार्च्चिषः ॥” इति गारुडे ७० अध्यायः ॥



Correction: