संस्कृत-शब्दकोशः

राश राशिकृत

राशि

वाचस्पत्यम्

राशि ||‍ पु० अश्नुते व्याप्नोति अश्—इन् धातोरुडागमश्च । धान्यादीनां १ पुञ्जे अमरः । ज्योतिश्चक्रस्य द्वादर्शाशे २ मेसादौ “दृश्ये राशिप्रसिद्धये” इति लीलावतीप्रसिद्धे ३ व्यक्ताव्यक्तगणभेदे यथा त्रैराशिकपञ्चराशिकादिशब्दे ।


शब्दकल्पद्रुमः

राशिः || पुं, (राशते इति । राश शब्द + इण् । यद्वा, अश्नुते व्याप्नोतीति । अशू व्याप्तौ + “अशि- पणाय्यो रुडायलुकौ च ।” उणा० ४ । १३२ । इति इण् रुडागमश्च ।)
धान्यादिसमूहः । तत्पर्य्यायः । पुञ्जः २ उत्करः ३ कूटम् ४ । इत्यमरः । २ । ५ । ४२ ॥ समुच्चयः ५ समा- हारः ६ । इति जटाधरः ॥ अश्नुते व्याप्नोति इति राशिः । अशू ञ व्यप्तिसंहत्योरित्यस्मात् नाम्नीति इञ् निपातनाद्रेफागमः । इति भरतः ॥ * ॥
(यथा, शकुन्तलायाम् १ अङ्के । “न खलु न खलु बाणः सन्निपात्योऽयमस्मिन् मृदुनि मृगशरीरे तुलराशाविवाग्निः ॥”)
ज्योतिश्चक्रस्य द्वादशांशः । तस्योत्पत्तिर्यथा, — अथ सृष्ट्यां मनश्चक्रे ब्रह्माहङ्कारमूर्त्तिभृत् । मनसश्चन्द्रमा जज्ञे सूर्य्योऽक्ष्णोस्तेजसां निधिः ॥ मनसः खं ततो वायुरग्निरापो धरा क्रमात् । गुणेकवृद्ध्या पञ्चैव महाभूतानि जज्ञिरे ॥ अग्नीषोमौ भास्करेन्दू ततस्त्वङ्गारकादयः । तेजोभूखाम्बुवातेभ्यः क्रमशः पञ्च जज्ञिरे ॥ पुनर्द्वादशधात्मानं विभजेद्राशिशंज्ञकम् । नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी ॥” इति सूर्य्यसिद्धान्ते गोलाध्यायः ॥ * ॥
तस्य संस्थानं यथा, —
“विषुवत्क्रान्तिवृत्त्यैक्यात् पूर्व्वभागस्थिताः स्थिराः । मेषाद्या राशयः क्रान्तिवृत्तयः पूर्व्वदिक्क्रमात् ॥” इति मुनीश्वरकृतसार्व्वभौमसिद्धान्तः ॥ * ॥
अथ राश्यादिनिर्णयः । “मेषवृषमिथुनकर्क्कटसिंहाः कन्या तुलाथ वृश्चिकभम् । धनुरथ मकरः कुम्भो मीन इति च राशयः कथिताः ॥” इति राशिकथनम् ॥ * ॥
“अश्विन्या सह भरणी कृत्तिकापादश्च कीर्त्तितो मेषः । १ । वृषभः कृत्तिकाशेषं रोहिण्यर्द्धश्च मृग- शिरसः ॥ २ ॥ मृगशिरसोऽर्द्धं चार्द्रा पुनर्व्वसोस्त्रिपादो मिथु- नम् । ३ । पादः पुनर्व्वसोरन्त्यः पुष्योऽश्लेषा च कर्कटः ॥ ४ ॥ सिंहोऽथ मघा पूर्व्वफल्गुणी पाद उत्तरायाः । ५ । तच्छेषं हस्ता चित्रार्द्धञ्च कन्यकाख्यः ॥ ६ ॥ तोलिनि चित्रार्द्धं स्वाती विशाखायाः पाद- त्रयम् । ७ । अलिनि विशाखा पादस्तथानुराधान्विता ज्येष्ठा ॥ ८ ॥ मूल पूव्वाषाढा प्रथमश्चाप्युत्तरांशको धन्वी । ९ । मकरस्तत्परिशेषं श्रवणा चांर्द्धं धनिष्ठायाः ॥ १० ॥ धनिष्ठार्द्धं शतभिषा पुर्व्वभाद्रपदपादत्रयं कुम्भः । ११ । पूर्ब्बभाद्रपदाशेषस्तथोत्तरा रेवती मीनः ॥” ११ ॥ इति राशिनक्षत्रभेदकथनम् ॥ * ॥
“राशिनामानि च क्षेत्रं भमृक्षे गृहनाम च । मेषादीनाञ्च पर्य्यायं लोकादेव विचिन्तयेत् ॥” इति राशिपर्य्यायकथनम् ॥ * ॥
“क्रियतावुरिजितुमकुलीरलेयपाथेययूककौ- र्पाख्याः । तौक्षिक आकोकेरो हृद्रोगश्चान्त्यभं चेत्थम् ॥” इति मेषादीनां विशेषनामकथनम् ॥ * ॥
“अरुणसितहरितपाटलपाण्डुविचित्राः सिते- तरपिषङ्गौ । पिङ्गलकर्व्वुरवभ्रुमलिना रुचयो यथासंख्यम् ॥” इति मेषादीनां वर्णभेदकथनम् ॥ * ॥
“मत्स्यौ घटी नृमिथुनं सगदं सवीणं चापी नरोऽश्वजघनो मकरो मृगास्यः । तौली सशस्यदहना प्लवगा च कन्या शेषाः स्वनामसदृशाः स्वचराश्च सर्व्वे ॥” अश्वजघनोऽश्वाकारजघनो नतु अश्वारूढ- इति जघनः । उत्तरत्र चतुश्चरणत्वकथनात् । राश्यधिष्ठातृदेवताकथनम् ॥ * ॥
“क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च ओजोऽथ युग्मं विषमः समश्च । चरास्थरद्ब्यात्मकनामघेया मेषादयोऽमी क्रमशः प्रदिष्टाः ॥” इति राशीनां क्रूरसौम्यादिविवेकः ॥ * ॥
दैवज्ञमनोहरे । “पुण्यश्च पुष्करश्चैव आघानाख्यस्तथैव च । श्रुत्या वृत्त्या भवन्त्येते नित्यं द्बादश राशयः ॥” इति पुण्यादिविवेकः ॥ * ॥
“मिथुनतुलाघटकन्या द्बिपादाख्याश्चापपूर्ब्ब- भागश्च । मृगधनुराद्यन्तार्द्धे वृषाजसिंहाश्चरणाः ॥” इति द्विपदचतुष्पदराशिकथनम् ॥ * ॥
“कर्कटवृश्चिकमीना मकरान्त्यार्द्धञ्च कीट- संज्ञाः स्युः । वृश्चिकराशिर्मुनिभिः सरीसृपत्वेन निर्दिष्टः ॥” इति कीटसरीसृपराशिकथनम् ॥ * ॥
“द्बिपदवशगाः सर्व्वे सिंहं विहाय चतु- व्यदाः । सलिलनिलया भक्ष्या वश्याः सरीसृपजातयः ॥ मृगपतिवशे तिष्ठन्त्येते विहाय सरीसृपान् । अकथितगृहेषूह्यं वश्यं जनव्यवहारतः ॥” सरीसृपजातय इति बहुवचनात् कीटस्यापि परिग्रहः । राशीनां वश्यावश्यकथनम् ॥ * ॥
“ग्राम्या मिथुनतुलास्त्रीचापालिघटाः निशासु वृषमेषौ । मकरादिमार्द्धसिंहौ वन्यौ दिवसेऽजवृषभौ च ॥ जलजौ कर्कटमीनौ मकरान्त्यार्द्धञ्च शिवमते कुम्भः ॥ इति ग्राम्यारण्यजलजराशिकथनम् ॥ * ॥
“ह्नस्वास्तिमिगोऽविघटा मिथुनधनुःकर्किमृग- मुखाश्च समाः । वृश्चिककन्यामृगपतिबणिजो दीर्घाः समा- ख्याताः ॥” इति राशीनां ह्नस्वदीर्घकथनम् ॥ * ॥
“प्रागादिककुभां नाथा यथासंख्यं प्रदक्षिणम् । मेषाद्या राशयो ज्ञयास्त्रिरावृत्तिपरिभ्रमात् ॥” इति दिगधिपलग्नकथनम् ॥ * ॥
“कुजशुक्रबुधेन्द्वर्कसौम्यशुक्रावनीभुवाम् । जीवार्किभानुजेज्यानां क्षेत्राणि स्युरजादयः ॥ इति ग्रहाणां क्षेत्रकथनम् ॥ * ॥
“अजो गोपतियुग्मञ्च कर्किधन्विमृगास्तथा । निशासंज्ञाः स्मृताश्चैते शेषाश्चान्ये दिनात्मकाः ॥ निशासंज्ञा विमिथुनाः स्मृताः पृष्ठोदयास्तथा । शेषाः शीर्षोदया ह्येते मीनश्चोभयसंज्ञकः ॥” इति निशादिसंज्ञाकथनम् ॥ * ॥
“रविर्मासं निशानाथः सपाददिवसद्वयम् । पक्षत्रयं भूमिपुत्त्रो बुधोऽष्टादशवासरान् ॥ वर्षमेकं सुराचार्य्यश्चाष्टाविंशदिनं भृगुः । शनिः सार्द्धद्वयं वर्षं स्वर्भानुः सार्द्धवत्सरम् ॥ एवं प्रमाणात् सकलाः स्वराशिं भुञ्जते ग्रहाः ॥” इति राशिभोगकथनम् ॥ इति ज्योतिस्तत्त्वम् ॥ * ॥
द्बादशराश्यात्मक- शिवरूपं यथा, — पुलस्त्य उवाच । “स्वरूपं त्रिपुरघ्नस्य वदिष्ये कालरूपिणः । अश्विनी भरणी चैव कृत्तिकाप्रथमांशकम् ॥ मेषकं हि विजानीयात् कुजक्षेत्रमुदाहृतम् । आग्नेयांशास्त्रयो ब्रह्मन् प्राजापत्यं कवेर्गृहम् ॥ सौम्यार्द्धं वृषनामेदं वदनं परिकीर्त्तितम् । मृगार्द्धमार्द्रादित्यां शास्त्रयः सौम्यगृहं त्विदम् ॥ मिथुनं भुजयोस्तस्य गगनस्थस्य शूलिनः । आदित्यांशश्च पुष्यश्च अश्लेषा शशिनो गृहम् ॥ राशिः कर्कटको नाम पार्श्वे मखविनाशिनः । पित्र्यर्क्षं भगदैवत्यं उत्तरांशश्च केशरी ॥ सूर्य्यक्षेत्रं विभोर्ब्रह्मन् हृदयं परिकीर्त्तितम् । उत्तरांशास्त्रयः पाणिश्चित्रार्द्धं कन्यका त्वियम् । सोमपुत्त्रस्य सद्मैतद्द्बितीयं जठरं विभोः ॥ चित्रांशद्वितयं स्वाती विशाखायांशकत्रयम् । द्वितीयं शुक्रसदनं तुला नाभिरुदाहृता ॥ विशाखांशमनुराधा ज्येष्ठा भौमगृहं त्विदम् । द्वितीयं वृश्चिको राशिर्मेढ्रं कालस्वरूपिणः ॥ मूलं पूर्ब्बोत्तरांशश्च देवाचार्य्यगृहं धनुः । उरुयुगलमीशस्य अमरर्षे प्रगीयते ॥ उत्तरांशास्त्रयो ऋक्षं श्रवणं मकरो मुने । धनिष्ठार्द्धं शनिक्षेत्रं जानुनी परिकीर्त्तिते ॥ धनिष्ठार्द्धं शतभिषा प्रोष्ठपदांशकत्रयम् । सौरं पद्मापरमिदं कुम्भो जङ्घे च विश्रुते ॥ प्रोष्ठपद्यंशमेकन्तु उत्तरा रेवती तथा । द्बितीयं जीवसदनं मीनन्तु चरणावुभौ ॥” * ॥
राशीनां लक्षणस्वरूपादि यथा, — नारद उवाच । “राशयः कथिता ब्रह्मन् ! त्वया द्बादश वै मम । तेषां विशेशतो ब्रूहि लक्षणानि स्वरूपतः ॥ पुलस्त्य उवाच । स्वरूपं तत्र वक्ष्यामि राशीनां शृणु नारद । यादृशा यत्र सञ्चारा यस्मिन् स्थाने बसन्ति हि ॥ सञ्चारस्थानमेकस्य धान्यरत्नाकरादिषु । नवसाद्बलसंच्छन्नो वसुधायाञ्च सर्व्वशः ॥ नित्यं चरति फुल्लेषु सरसां पुलिनेषु च । मेषः समानमूर्त्तिश्च अजाविकधनादिषु ॥ वृषः सदृशरूपेषु चरते गोकुलादिषु । तस्याधिवासभूमिस्तु कृषीबलधराश्रया ॥ स्त्रीपुंसयोः समं भद्रशय्यासनपरिग्रहैः । बीणावाद्यधृङ्मिथुनं गीतनर्त्तकशिल्पिषु ॥ स्थितं क्रीडा रतिर्न्नित्यं विहारोऽवनिरस्य तु । मिथुनं नाम विख्यातं राशिर्द्वेधात्मकः स्मृतः ॥ कर्किः कुलीरेण समः सलिलस्थः प्रकीर्त्तितः । केदारवापीपुलिनविविक्तावनिरेव च ॥ सिंहस्तु पर्व्वतारण्यदुर्गकन्दरभूमिषु । वसते व्याधपल्लीषु गह्वरेषु गुहासु च ॥ या हि प्रदीपककरा नावारूढा च कन्यका । चरते स्त्रीरतिस्थाने वसते तद्वनेषु च ॥ तुलापाणिश्च पुरुषो वीथ्यापणविचारकः । नगराध्वनि शालासु वसते तत्र नारद ॥ स्वभ्रवल्मीकसञ्चारी वृश्चिको वृश्चिकाकृतिः । वृषगोमयकीटोऽहिपाषाणादिषु संस्थितः ॥ धनुस्तुरङ्गजघनो दीप्यमानो धनुर्द्धरः । बाजिशूरोऽस्त्रविद्बीरः स्थायी युद्धबलादिषु ॥ मृगास्यो मकरो ब्रह्मन् ! वृषस्कन्धः फणाङ्गदः । मकरोऽसौ नदीचारी वसते च महोदधौ ॥ रिक्तकुम्भश्च पुरुषः स्कन्धधारी जलाप्लुतः । दूतशालाचरः कुम्भस्थायी शौण्डिकसद्मसु ॥ मीनरूपत्वमासक्तो मीनस्तीर्थाम्बुसञ्चरः । वसते पुण्यदेशेषु देवब्राह्मणपूजकः ॥ लक्षणं गदितं तुभ्यं मेषादीनां महामुने । न कस्यचित्त्वयाख्येयं गुह्यमेतत् पुरातनम् ॥ एतन्मया ते कथितं सुरर्षे यथा त्रिनेत्रः प्रममाथ यज्ञे । पुण्यं पुराणं परमं पवित्रं संशृण्वतां पापहरं शिवञ्च ॥” इति श्रीवामनपुराणे पुलस्त्यनारदसंवादे हर- ललितः पञ्चमोऽध्यायः ॥



Correction: