वाचस्पत्यम्
राशिचक्र || न० राशिथटितं चक्रं वृत्तम् । मेषादिद्वादश- राशियुक्ते गोलाकारे वायुवशेन पूर्वतः पश्चात् अनिशं बंभ्रम्यमाणे ज्योतिर्मये “सप्तविंशतिभिर्ज्योतिश्चक्रं स्ति- मितवायुगम्” इत्युक्ते ज्योतिश्चक्रे खगोलशब्दे दृश्यम् मन्त्रशुद्ध्यङ्गराशिचक्रे तच्च चक्रशब्दे २८० पृष्ठे दृश्यम् ।
शब्दकल्पद्रुमः
राशिचक्रं || क्ली (राशीनां चक्रम् ।)
मेषादि- द्वादशराश्यादियुक्तवृत्तम् । तस्य नामान्तरं भचक्रं ज्योतिषचक्रञ्च । यथा, —
“सप्तविंशतिभैर्ज्योतिश्चक्रं स्तिमितवायुगम् । तदर्कांशो भवेदाशिर्नवर्क्षचरणाङ्कितः ॥” इति दीपिका ॥ * ॥
तद्विवरणं यथा, —
“भचक्रं ध्रुवयोर्ब्बद्धमाक्षिप्तं प्रवहानिलैः । पर्य्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम् ॥ उपरिस्थस्य महतीकक्षाल्पाधःस्थितस्य च । महत्या कक्षया भागा महान्तोऽल्पास्तथा- ल्पया ॥ कालेनाल्पेन भगणं भुङ्क्तेऽल्पभ्रमणाश्रितः । ग्रहः कालेन महता मण्डले महति भ्रमन् ॥ खल्पया तु बहून् भुङ्क्ते भगणान् शीत- दीधितिः । महत्या कक्षयागच्छन् ततः स्वल्पः शनैश्चरः ॥ मन्दादधःक्रमेण स्युश्चतुर्था दिवसाधिपाः । वर्षाधिपतयस्तद्वत् तृतीयाः परिकीर्त्तिताः ॥ ऊर्द्ध्वक्रमेण शशिनो मासानामधिपाः स्मृताः । होरेशाः सूर्य्यतनयादधोधः क्रमशस्तथा । भवेद्भकक्षा तीग्मांशोर्भ्रमणं षष्टिताडितम् । सर्व्वोपरिष्टात् भ्रमति योजनैस्तैर्भमण्डलम् ॥” तत्र कक्षाक्रममाह । “ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाभिधीयते । तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तथा ॥ मन्दामरेज्यभूपुत्त्रसूर्य्यशुक्रेन्दुजेन्दवः । परिभ्रमन्त्यधोऽधःस्थाः सिद्धविद्याधरा घनाः ॥” इति सूर्य्यसिद्धान्तः ॥ * ॥
ग्रहत्रयचन्द्रसंयोगे फलविशेषजनकं राशिचक्रं यथा, —
“राशिचक्रं प्रवक्ष्यामि नृपाणां हितकाम्यया ॥ रविर्जीवस्तथा सौम्यस्तैश्च चन्द्रे समागते । जलपातो भवेत् सत्यमित्युक्तं विष्णुयामले ॥ रविर्जीवस्तथा शुक्रस्तैश्च चन्द्रे समागते । वायुपातो भवेत् सत्यमित्युक्तं विष्णुयामले ॥ रविर्ज्जीवस्तथा भौमस्तैश्च चन्द्रे समागते । अग्निपातो भवेत् सत्यमित्युक्तं ब्रह्मयामले ॥ रविर्भौमस्तथा राहुस्तैश्च चन्द्रे समागते । लोहपातो भवेत् सत्यमित्युक्तं रुद्रयामले ॥ रवी राहुस्तथा केतुस्तैश्च चन्द्रे सगागते । पाषाणपातोऽपि भवेदित्युक्तं भानुयामले ॥” इति नरपतिजयचर्य्यायां तुम्बुरुचक्रे राशि- चक्रम् ॥ * ॥
जातकराशिचक्रम् । यथा, —
“तन्वादिव्ययपर्य्यन्तं राशिचक्रे व्यवस्थितम् । तन्न बुद्ध्वाल्पमतयो जल्पयन्ति वृथा वृथा ॥” इति पञ्चस्वरा ॥ * ॥
मन्त्रग्रहणोक्तराशिचक्रम् यथा । आगमकल्प- द्रुमे । “रेखाद्वयं पूर्ब्बपरागतं स्यात् तन्मध्यतो याम्यकुवेरभेदात् । एकैकमीशाननिशाचरे तु हुताशवाय्वोर्विलिखेत्ततोऽर्णान् ॥ वेदाग्निवह्नियुगलश्रवणाक्षिसंख्यान् पञ्चेषुवाणशरपञ्चचतुष्टयार्णान् । मेषादितः प्रविलिखेत् सकलांस्तु वर्णान् कन्धागतान् प्रविलिखेदथ शादिवर्णान् ॥” तथा, —
“बालं गौरं खुरं शोणं शमी शोभेति राशिषु । क्रमेण भेदिता वर्णाः कन्यायां शादयः स्मृताः ॥” तेन अ आ इ ई मेषः । उ ऊ ऋ वृषः । ॠ ऌ ॡ मिथुनम् । ए ऐ कर्कटः । ओ औ सिंहः । अं अः श ष स ल क्षाः कन्याः । कवर्गस्तुला । चवर्गो वृश्चिकः । टवर्गो धनुः । तवर्गो मकरः । पवर्गः कुम्भः । यवर्गो मीनः । स्वराशीनामनुकूलं मन्त्रं भजेत् । तथा च । “स्वतारराशिकोष्ठानामनुकूलान् भजेन्मनून् ॥” इति वचनात् ॥ “राशीनां शुद्धताज्ञेया त्यजेच्छत्रुं मृतिं व्ययम् । स्वराशेर्मन्त्रराश्यन्तं गणनीयं विचक्षणैः ॥” यदा तु स्वराशेरज्ञानं तदा साधकनामाद्यक्षर- सम्बन्धिनं राशिं गृहीत्वा गणयेत् । “साध्याद्यक्षरराश्यन्तं गणयेत् साधकाक्षरम् । इति रामार्च्चनचन्द्रिकाधृतवचनात् । तथा, “अज्ञाते राशिनक्षत्रे नामाद्यक्षरराशितः ॥” इति तन्त्रराजे ॥ “तेन मन्त्राद्यवर्णेन नाम्नश्चाद्यक्षरेण च । गणयेद्यदि षष्ठं वाप्यष्टमं द्बादशन्तु वा । रिपुर्मन्त्राद्यवर्णः स्यात् तेन तस्याहितं भवेत् ॥ एक पञ्च नव बान्धवाः स्मृताः द्वौ च षट् च दशमाश्च सेवकाः । वह्निरुद्रमुनयस्तु पोषकाः द्बादशाष्टचतुरस्तु घातकाः ॥” इति विष्णुविषयम् ॥ रामाच्चनचन्द्रिकाधृतत्वात् । शक्त्यादौ तु षष्ठं वर्ज्जनीयम् । तथा च । “षष्ठाष्टमद्बादशानि वर्ज्जनीयानि यत्नतः ॥” इति वचनात् ॥ तन्त्रान्तरे । “लग्नं धनं भ्रातृबन्धुपुत्त्रशत्रुकलत्रकाः । मरणं धर्म्मकर्म्मायव्यया द्बादश राशयः ॥ नामानुरूपमेतेषां शुभाशुभफलं लभेत् ॥ लग्ने सिद्धिस्तथा नित्यं धने धनसमृद्धिदः । भ्रातरि भ्रातृवृद्धिश्च शत्रौ शत्रुविवर्द्धनः ॥ पुत्त्रे पुत्त्रविवृद्धिः स्यात् बन्धौ बान्धववत् प्रियः । कलत्रे मध्यमा प्रोक्ता मरणे मरणं भवेत् ॥ धर्म्मे धर्म्मविवृद्धिः स्यात् सिद्धिदः कर्म्मसंस्थितः । आये च धनसम्पत्तिर्व्यये च सञ्चितक्षयः ॥” वैष्णवतन्त्रे तु शत्रुस्थाने बन्धुरिति पाठः । इति तन्त्रसारः ॥