संस्कृत-शब्दकोशः

रुक्मिदारिन् रुक्मिभिद्

रुक्मिन्

वाचस्पत्यम्

रुक्मिन् ||‍ त्रि० रुक्मं विद्यतेऽस्य इनि । १ स्वर्णवुक्ते २ भीष्मक- राजज्येवपुत्रे पु० राजभेदे भाग० १० । ५२ । १ रुक्मि- राजकन्यायां श्रीकृष्णपत्न्यां स्त्री ङीप् ।


शब्दकल्पद्रुमः

रुक्मी || [न्] पुं, (रुक्मो वर्णविशेषोऽस्यास्तीति । रुक्म + इनिः ।)
भीष्मकराजज्येष्ठपुत्त्रः । यथा, “राजासीद्भीष्मको नाम विदर्भाधिपतिर्महान् । तस्य पञ्चाभवन् पुत्त्राः कन्यैका रुचिरानना ॥ रुक्म्यग्रजो रुक्मरथो रुक्मबाहुरनन्तरः । रुक्मकेशो रुक्ममाली रुक्मिण्येषां स्वसा सती ॥” इति श्रीभागवते १० स्कन्धे ५२ अध्यायः ॥ (रुक्मिणीहरणानन्तरं कृष्णेन सहास्य युद्धा- दिविवरणं हरिवंशे ११७ अध्याये तथा प्रद्यु- म्नेन सहास्य कन्यापरिणयवृत्तान्तः अनिरुद्धेन सहास्य पौत्र्याः परिणयस्तदा बलदेवादस्य मृत्युविवरणञ्च ११८ अध्याये विस्तरशो द्रष्ट- व्यम् ॥)



Correction: