वाचस्पत्यम्
रुच || प्रीतौ प्रकाशे च भ्वा० आ० अक० सेट् । रोचते लुङि उ० अरुचत् अरोष्टिष्ट । एतद्योगे प्रीयमाणस्य सम्प्र- दानता “नारदाय रोचते कलहः” सि० कौ० ।
शब्दकल्पद्रुमः
रुच || ङ ऌ प्रीतिप्रकाशयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट् ।)
प्रीतिरिह अनु- रागविशेषः । तत्र यस्यानुरागस्तस्य सम्प्रदान- त्वम् । ङ, रोचते अन्नं बुभुक्षवे । ऌ, अरुचत् । इति दुर्गादासः ॥