संस्कृत-शब्दकोशः

रुची रुच्य

रुच्

वाचस्पत्यम्

रुच्(चा) ||‍ स्त्री रुच सम्प० क्विप् वा टप् । १ दींप्तौ, २ शो- सायां, ३ प्रकाशे, ४ शारिकाखगवाचि च शब्दर० ।


शब्दकल्पद्रुमः

रुक् || [च्] स्त्री, (रुच् + भावे क्विप् ।)
शोभा । (यथा, माघे । ४ । ६६ । “दधद्भिरभितस्तटौ विकचवारिजाम्बूनदै- र्व्विनोदितदिनक्लमाः कृतरुचश्च जाम्बूनदैः ॥”)
द्युतिः । (यथा, किराते । ५ । ४५ । “क्षिपति योऽनुवनं विततां बृहद्- बृहतिकामिव रौचनिकीं रुचम् ॥”)
इच्छा । इति मेदिनी ॥ (यथा, महाभारते । १३ । १२४ । २८ । “नानाबुद्धिरुचो लोके मनुष्यान्नूनमिच्छसि । ग्रहीतुं स्वगुणैः सर्व्वांस्तेनासि हरिणः कृशः ॥” तेजः । यथा, रघुः । ९ । ६ । “अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा ॥”)
शारिकाशुकवाक् । इति शब्दरत्नावली ॥



Correction: