संस्कृत-शब्दकोशः

रुट रुणस्करा

रुठ

वाचस्पत्यम्

रुठ ||‍ उपवाते भ्वा० पर० सक० सेट् । रोठति अरोठीत् ।


वाचस्पत्यम्

रुठ ||‍ गतौ चौर्य्ये सक० मन्दीभावे खञ्जीभावे च अक० भ्वा० पर० सेट् इदित् । रुण्ठति अरुण्ठीत् ।


वाचस्पत्यम्

रुठ ||‍ प्रतीधाते भ्वा० आ० सक० सेट् । रोठते ऌदित् लुङि उभ० अरुठत् अरोठिष्ट रुरुठे ।


शब्दकल्पद्रुमः

रुठ || इ गत्यालस्यस्तेयखोटे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-अक० च सेट् ।)
पञ्चमस्वरी । इ, रुण्ठ्यते । आलस्यं मन्दीभावः । स्तेयं चौर्य्यम् । खोटः खोडनम् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

रुठ || उपघाते । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
रोठति लोकं शोकः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

रुठ || ऌ ङ प्रतीघाते । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।)
ऌ, अरुठत् । ङ, रोठते । प्रतीघातः शोकादिना पतनं पुनर्हननं वा । इति दुर्गादासः ॥



Correction: