संस्कृत-शब्दकोशः

रुत रुदथ

रुद

वाचस्पत्यम्

रुद ||‍ रोदने अश्रुविमोचने अदा० पर० अक० सेट् रुदा० सार्व- धातुके हलादौ इट् रोदिति इरित् अरुदत् अरोदीत् ।


शब्दकल्पद्रुमः

रुद || ल घ इर् रोदे । इति कविकल्पद्रुमः ॥ (अदा०-पर०-अक०-सेट् ।)
रोदोऽश्रुविमो- चनम् । ल घ, रोदिति लोकः शोकात् । इर्, अरुदत् अरोदीत् । रोदिष्यमाणमात्मानमिति भट्टौ । आह्वानविशिष्टरोदबक्रियाव्याप्यत्वात् सकर्म्मकत्वमिति जयमङ्गला । इति दुर्गादासः ॥



Correction: