वाचस्पत्यम्
रूपधारिन् || त्रि० रूपं धारयति धारि णिनि । १ रूपवति, २ सौन्दर्य्यान्विते, ३ वेशान्तरग्राहिणि नटे च ।
शब्दकल्पद्रुमः
रूपधारी || [न्] (रूपं धरतीति । धृ + णिनिः ।)
सौन्दर्य्यविशिष्टः । यथा, —
“ततो विकटरूपोऽसौ सर्व्वशास्त्रार्थपारगः । विवाहयद्द्विजसुतां रूपेणानुपमां द्विजः ॥ सावमेने च भर्त्तारं सुशीलमपि भाविनी । विरूपमिति मन्वाना ततः सोऽभूत् सुदुःखितः ॥ ततो निर्व्वेदसंयुक्तो गत्वाश्रमपदं महत् । इरावत्यास्तटे श्रीमान् रूपधारिणमासदत् ॥ तमाराध्य जगन्नाथं नक्षत्रपुरुषेण हि । सुरूपतामवाप्याग्र्यां तस्मिन्नेव च जन्मनि ॥” इति वामनपुराणे ७६ अध्यायः ॥