संस्कृत-शब्दकोशः

रे रेकणस्

रेक

वाचस्पत्यम्

रेक ||‍ पु० रिच—घञ् । १ विरेचने । रेक—अच् । २ शङ्कायां, ३ नीचे मेदि० ४ भेके पुंस्त्री० जटा० । स्त्रियां ङीष् । रेक—मावे अ । ५ सन्देहे स्त्री हेमच० टाप् ।


वाचस्पत्यम्

रेक ||‍ शङ्कायां भ्वा० आ० स० सेट् । रेकते अरेकिष्ट । ऋ- दित् चङि न ह्रस्वः ।


शब्दकल्पद्रुमः

रेक || ऋ ङ शङ्कायाम् । इति कविकल्पद्रुमः । (भ्वा०-आत्म०-सक०-सेट् ।)
शङ्का संशया- रोपः । ऋ, अरिरेकत् । ङ, रेकते पुरुषत्वं स्थाणौ । स्थाणुर्व्वा पुरुषो वेति संशयमारो- पयतीत्यर्थः । रिरेके । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

रेकः || पुं, (रेक शङ्कायाम् अथवा रिच् + घञ् ।)
शङ्का । नीचः । विरेचनम् । इति मेदिनी । के, ३१ ॥ (यथा, —
“वस्तिर्वातविकारान् पैत्तान् रेकः कफोद्भवान् वमनम् । क्षौद्रं जयति वलासं सर्पिः पित्तं समीरणं तैलम् ॥” इति वाभटे उत्तरस्थाने ४० अध्याये ॥)
भेकः । इति त्रिकाण्डशेषः ॥



Correction: