संस्कृत-शब्दकोशः

रेट रेणुका

रेणु

वाचस्पत्यम्

रेणु ||‍ पुंस्त्री० री—नु । १ परागे २ धूलौ च अमरः । ३ रेणुकायां स्त्री ४ पर्पटे पु० । ५ पांशौ च राजनि० ।


शब्दकल्पद्रुमः

रेणुः || पुं, (री + णुः ।)
पर्पटः । रेणुका । पांशुः । इति राजनिर्घण्टः ॥ (यथा, रघुः । ९ । २३ । “दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥” विडङ्गः । तत्पर्य्यायो यथा, —
“जन्तुघ्नं भस्मकं रेणुः क्रिमिघ्नं चित्रतरु लम् । क्रिमिशत्रुः विडङ्गश्च गर्द्दभं तच्च केवलम् ॥” इति वैद्यकरत्नमालायाम् ॥)


शब्दकल्पद्रुमः

रेणुः || पुं, स्त्री, (रिणातीति । री गतिरेषणयोः + “अजिवृरीभ्यो निच्च ।” उणा० ३ । ३८ । इति णुः ।)
धूलिः । इत्यमरः ॥ (यथाह कश्चित् । “मानुषीकरणरेणुरस्ति ते पादयोरिति कथा प्रत्ःइयसी । क्षालयामि तव पादपङ्कजं नाथ ! दारुदृशदोस्तु का भिदा ॥”)



Correction: