वाचस्पत्यम्
रेफ || पु० र + इफ । १ रकारात्मके वर्णे । रिफ—अच् । २ कु- त्सिते त्रि० अमरः ।
शब्दकल्पद्रुमः
रेफः || त्रि (रिफ + “अवद्यावमाधमार्वरेफाः कुत्- सिते ।” उणा० ५ । ५४ । इति अप्रत्ययेन निपातितः ।)
कुत्सितः । इत्यमरः ॥
शब्दकल्पद्रुमः
रेफः || पुं, (रिफ्यते इति । रिफ + घञ् । यद्वा, “रादिफन् ।” इत्यनेन वर्णस्वरूपार्थे रशब्दादि- फन्प्रत्ययः । तथाच “रेफ इत्यौणादिकः ।” इति कृत्सु ५ पादे दुर्गः ।)
रवर्णः । (यथा, —
“परैर्गतो यः शिरसापि धार्य्यते समागते सद्मनि याति नम्रताम् । गुणैः परेषां द्बिगुणत्वमीहते । रेफेण तुल्या प्रकृतिर्म्महात्मनाम् ॥” इत्युद्भटः ॥)
रागः । इति शब्दरत्नावली ॥ (शब्दः । यथा, भागवते । ८ । २० । २५ । “श्रियञ्च वक्षस्यरविन्दहस्तां कण्ठे च सामानि समस्तरेफान् ॥”)